मुनिपुष्पार्चितो विष्णुः कार्तिके पुरुषोत्तमः । ददात्यभिमतान्कामान्शशिसूर्यग्रहे यथा
विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् । कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत्
तुलसीदलानि पुष्पाणि ये यच्छंति जनार्दने । कार्तिके सकलं वत्स पापं जन्मायुतं दहेत्
दृष्टा स्पृष्टाथ वा ध्याता कीर्तिता नामतस्तु ता । रोपिता सिंचिता नित्यं पूजिता तुलसी शुभा
नवधा तुलसीभक्तिं ये कुर्वंति दिनेदिने । युगकोटिसहस्राणि तन्वंति सुकृतं मुने
यावच्छाखाप्रशाखाभिर्बीजपुष्पदलैर्मुने । रोपिता तुलसी पुंभिर्वर्द्धते वसुधातले
तेषां वंशे तु ये जाता ये भविष्यंति ये गताः । आकल्पवर्षसाहस्रं तेषां वासो हरेर्गृहे
यत्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद । तुलसीदलेन चैकेन कार्तिके प्राप्यते तु तत्
संप्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्दनः । पूजनीयो महाविष्णुः कोमलैस्तुलसीदलैः
इष्ट्वा क्रतुशतैर्देवान्दत्त्वा दानान्यनेकशः । तुलसीदलैस्तु तत्पुण्यं कार्तिके केशवार्चने
युधिष्ठिर उवाच - भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् । सर्वपापहरं विष्णोः फलदं व्रतिनां च यत्
पुरुषोत्तममासस्य कथां ब्रूहि जनार्दन । को विधिः किं फलं तस्य को देवस्तत्र पूज्यते
अधिमासे च संप्राप्ते व्रतं ब्रूहि जनार्दन । कस्य दानस्य किं पुण्यं किं कर्त्तव्यं नृभिः प्रभो
कथं स्नानं च किं जाप्यं कथं पूजाविधिः स्मृतः । किं भोज्यमुत्तमं चान्नं मासेऽस्मिन्पुरुषोत्तमे
श्रीकृष्ण उवाच- कथयिष्यामि राजेंद्र भवतः स्नेहकारणात् । पुरुषोत्तममासस्य माहात्म्यं पापनाशनम्
अधिमासे तु संप्राप्ते भवेदेकादशी तु या । कमला नाम सा नाम्ना तिथीनामुत्तमा तिथिः
तस्या व्रतप्रभावेन कमलाभिमुखी भवेत् । ब्राह्मे मुहूर्त्ते चोत्थाय संस्मृत्य पुरुषोत्तमम्
स्नात्वा चैव विधानेन नियमं कारयेद्व्रती । गृहे त्वेकगुणं जाप्यं नद्यां तु द्विगुणं स्मृतम्
गवां गोष्ठे सहस्रोर्ध्वमग्न्यागारे शतान्वितम् । शिवक्षेत्रेषु तीर्थेषु देवतानां च सन्निधौ
लक्षं तुलस्याः सांनिध्ये ह्यनंतं विष्णुसन्निधौ । अवंत्यामभवत्कश्चिच्छिवशर्मा द्विजोत्तमः
तस्यात्मजास्तु पंचासन्कनिष्ठो दोषवानभूत् । तदा पित्रा परित्यक्तस्त्यक्तः स्वजनबांधवैः
कुकर्मणः प्रभावेन गतो दूरतरं वनम् । एकदा दैवयोगेन तीर्थराजं समागतः
क्षुत्क्षामो दीनवदनस्त्रिवेण्यां स्नानमाचरत् । मुनीनामाश्रमांस्तत्र विचिन्वन्क्षुधयार्दितः
हरिमित्रमुनेस्तत्र ददर्शाश्रममुत्तमम् । पुरुषोत्तममासे वै जनानां च समागमे
तत्राश्रमे कथयतां कथां कल्मषनाशिनीम् । ब्राह्मणानां मुखात्तेन श्रद्धया कमला श्रुता
एकादशी पुण्यतमा भुक्तिमुक्तिप्रदायिनी । जयशर्मा विधानेन श्रुत्वेमां कमला तिथिम्
एकादशीपुण्यतमा भुक्तिमुक्तिप्रदायिनी । व्रतं कृतं च तैः सार्द्धं स्थित्वा शून्यालये तदा
निशीथे समनुप्राप्ते लक्ष्मीस्तत्र समागता । वरं ददामि भो विप्र कमलायाः प्रभावतः
जयशर्मोवाच - का त्वं कस्यासि रंभोरु प्रसन्ना च कथं मम । इंद्राणी सुरनाथस्य भवानी शंकरस्य वा
गंधर्वी किन्नरी वाथ वधूर्वा चंद्रसूर्ययोः । त्वत्सदृक्षा न दृष्टा च न श्रुता च शुभानने