उपसेवेत विप्रेंद्र सर्वकामफलप्रदम् । परान्नं वर्जयेद्यस्तु कार्तिके विष्णुतत्परः
परान्नवर्जनाद्वत्स चांद्रायणफलं लभेत् । नित्यं शास्त्रविनोदेन कार्तिके मधुसूदनः
स दहेत्सर्वपापानि यज्ञायुतफलं लभेत् । न तथा तुष्यते यज्ञैर्न दानैर्वाजपादिभिः
यथा शास्त्रकथालापैः कार्तिके मधुसूदनः । ये कुर्वंति कथां विष्णोर्ये शृण्वंति शुभान्विताः
श्लोकार्द्धं श्लोकपादं वा कार्तिके गोशतं फलम् । सर्वधर्मान्परित्यज्य कार्तिके केशवाग्रतः
शास्त्रावधारणं कार्यं श्रोतव्यं च महामुने । श्रेयसा लोभबुद्ध्या च यः करोति हरेः कथाम्
कार्तिके मुनिशार्दूल कुलानां तारयेच्छतम् । नियमेन नरो यस्तु शृणुते वैष्णवीं कथाम्
कार्तिके तु विशेषेण गोसहस्रफलं लभेत् । प्रबोधवासरे विष्णोः शृणुते यो हरेः कथाम्
सप्तद्वीपवती दाने तत्फलं लभते मुने । श्रुत्वा विष्णुकथां दिव्यां येऽर्चयंति कथाविदम्
स्वशक्त्या मुनिशार्दूल तेषां लोकोऽक्षयः स्मृतः । गीतशास्त्रविनोदेन कार्तिकं यो नयेन्नरः
न तस्य पुनरावृत्तिर्मया दृष्टा कलिप्रिय । गीतं नृत्यं च वाद्यं च भव्यां विष्णुकथां मुने
यः करोति स पुण्यात्मा त्रैलोक्योपरि संस्थितः । बहुपुष्पैर्बहुफलैः कर्पूरागुरुकुंकुमैः 6.61.
हरेः पूजा विधातव्या कार्तिके बोधवासरे । यस्मात्पुण्यमसंख्यातं प्राप्यते मुनिसत्तम
फलैर्नानाविधैर्द्रव्यैः प्रबोधिन्यां तु जागरे । शंखे तोयं समादाय अर्घो देयो जनार्दने
यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम् । तत्फलं कोटिगुणितं दत्त्वार्घं बोधवासरे
गुरुपूजा ततः कार्या भोजनाच्छादनादिभिः । दक्षिणाभिश्च देवर्षे तुष्ट्यर्थं चक्रपाणिनः
भागवतं शृणुते यस्तु पुराणं च पठेन्नरः । प्रत्यक्षरं भवेत्तस्य कपिलादानजं फलम्
कार्त्तिके मुनिशार्दूल स्वशक्त्या वैष्णवं व्रतम् । यः करोति यथोक्तं तु मुक्तिस्तस्य सुनिश्चला
केतक्या एकपत्रेण पूजितो गरुडध्वजः । समाः सहस्रं सुप्रीतो भवति मधुसूदनः
अगस्तिकुसुमैर्देवं पूजयेद्यो जनार्दनम् । दर्शनात्तस्य देवर्षे नरकाग्निः प्रणश्यति
मुनिपुष्पार्चितो विष्णुः कार्तिके पुरुषोत्तमः । ददात्यभिमतान्कामान्शशिसूर्यग्रहे यथा
विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् । कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत्
तुलसीदलानि पुष्पाणि ये यच्छंति जनार्दने । कार्तिके सकलं वत्स पापं जन्मायुतं दहेत्
दृष्टा स्पृष्टाथ वा ध्याता कीर्तिता नामतस्तु ता । रोपिता सिंचिता नित्यं पूजिता तुलसी शुभा
नवधा तुलसीभक्तिं ये कुर्वंति दिनेदिने । युगकोटिसहस्राणि तन्वंति सुकृतं मुने
यावच्छाखाप्रशाखाभिर्बीजपुष्पदलैर्मुने । रोपिता तुलसी पुंभिर्वर्द्धते वसुधातले
तेषां वंशे तु ये जाता ये भविष्यंति ये गताः । आकल्पवर्षसाहस्रं तेषां वासो हरेर्गृहे
यत्फलं सर्वपुष्पेषु सर्वपत्रेषु नारद । तुलसीदलेन चैकेन कार्तिके प्राप्यते तु तत्
संप्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्दनः । पूजनीयो महाविष्णुः कोमलैस्तुलसीदलैः
इष्ट्वा क्रतुशतैर्देवान्दत्त्वा दानान्यनेकशः । तुलसीदलैस्तु तत्पुण्यं कार्तिके केशवार्चने