ऐश्वर्यं संपदं प्रज्ञां राज्यं च सुखसंपदः । ददात्युपोषिता भक्त्या जनेभ्यो हरिबोधिनी
मेरुमन्दरमात्राणि पापान्युक्तानि यानि च । एकेनैवोपवासेन दहते पापनाशिनी
पूर्वजन्मसहस्रेषु यत्पापं समुपार्जितम् । निशि जागरणं चास्या दहते तूलराशिवत्
उपवासं प्रबोधिन्यां यः करोति स्वभावतः । विधिवन्मुनिशार्दूल यथोक्तं लभते फलम्
यथोक्तं कुरुते यस्तु विधिवत्सुकृतं नरः । स्वल्पं मुनिवरश्रेष्ठ मेरुतुल्यं भवेत्फलम्
विधिहीनं तु यः कुर्यात्सुकृतं मेरुमात्रकम् । अणुमात्रं तदाप्नोति फलं धर्मस्य नारद
ये ध्यायंति मनोवृत्या ये करिष्यंति बोधिनीम् । वसंति पितरो हृष्टा विष्णुलोके च तस्य वै
विमुक्ता नारकैर्दुःखैर्याति विष्णोः परं पदम् । कृत्वा तु पातकं घोरं ब्रह्महत्यादिकं नरः
कृत्वा तु जागरं विष्णोर्द्धौतपापो भवेन्नरः । दुष्प्राप्यं यत्फलं विप्र अश्वमेधादिकैर्मखैः
प्राप्यते तत्सुखेनैव प्रबोधिन्यास्तु जागरे । आप्लुत्य सर्वतीर्थेषु प्रदत्त्वा कांचनं महीम्
तत्फलं समवाप्नोति यत्कृत्वा जागरं हरेः । जातः स एव सुकृती कुलं तेनैव पावितम्
कार्तिके मुनिशार्दूल कृता येन प्रबोधिनी । यथा ध्रुवं नृणां मृत्युर्धनं गात्रं तथाध्रुवम्
इति ज्ञात्वा मुनिश्रेष्ठ कर्तव्यं वैष्णवं दिनम् । यानि कानि च तीर्थानि त्रैलोक्ये संभवंति च
तानि तस्य गृहे सम्यग्यः करोति प्रबोधिनीम् । किं तस्य बहुभिः पुण्यैः कृता येन प्रबोधिनी
पुत्रपौत्रप्रदा ह्येषा कार्तिके हरिबोधिनी । स ज्ञानी च स योगी च स तपस्वी जितेंद्रियः
भोगो मोक्षश्च तस्यास्ति उपास्ते हरिबोधिनीम् । विष्णोः प्रियतरा ह्येषा धर्मसारसहायिनी
यः करोति नरो भक्त्या भुक्तिभाक्स भवेन्नरः । प्रबोधिनीमुपोषित्वा गर्भे न विशते नरः
सर्वधर्मान्परित्यज्य तस्मात्कुर्वीत नारद । कर्मणा मनसा वाचा पापं यत्समुपार्जितम्
तत्क्षालयति गोविंदः प्रबोधिन्यां तु जागरे । स्नानं दानं जपः पूजां समुद्दिश्य जनार्दनम्
नरो यत्कुरुते वत्स प्रबोधिन्यां तदक्षयम् । येर्चयंति नरास्तस्यां भक्त्या देवं च माधवम्
समुपोष्य प्रमुच्यंते पापैस्तैः शतजन्मजैः । महाव्रतमिदं पुत्र महापापौघनाशनम्
प्रबोधवासरं विष्णोर्विधिवत्समुपोषयेत् । व्रतेनानेन देवेशं परितोष्य जनार्दनम्
विराजयन्दिशः सर्वाः प्रयाति हरिमंदिरम् । कर्तव्यैषा प्रयत्नेन नरैः कांतिधनार्थिभिः
बाल्ये यत्संचितं पापं यौवने वार्द्धके तथा । शतजन्मकृतं पापं स्वल्पं वा यदि वा बहु
तत्क्षालयति गोविंदश्चास्यामभ्यर्चितो नृणाम् । धनधान्यवहा पुण्या सर्वपापहरा परा
तामुपोष्य हरेर्भक्त्या दुर्ल्लभं न भवेत्क्वचित् । चंद्रसूर्योपरागे च यत्फलं परिकीर्तितम्
तत्सहस्रगुणं प्रोक्तं प्रबोधिन्यां प्रजागरे । स्नानं दानं जपो होमः स्वाध्यायोऽभ्यर्चनं हरेः
तत्सर्वं कोटिगुणितं प्रबोधिन्यां कृतं तु यत् । जन्मप्रभृतियत्पुण्यं नरेणोपार्जितं भवेत्
वृथा भवति तत्सर्वमकृत्वा कार्तिके व्रतम् । अकृत्वा नियमं विष्णोः कार्तिकं यः क्षिपेन्नरः
न जन्मार्जितपुण्यस्य फलं प्राप्नोति नारद । तस्मात्सर्वप्रयत्नेन देवदेवं जनार्दनम्