समाहूय स्वके वामे पार्श्वेतां संन्यवेशयत् । अथोवाच प्रियं हर्षाच्चंद्रभागा प्रियं वचः
शृणु कांत हितं वाक्यं यत्पुण्यं विद्यते मयि । अष्टवर्षाधिका जाता यदाहं पितृवेश्मनि
ततः प्रभृति यच्चीर्णं मया चैकादशीव्रतम् । यथोक्तविधिसंयुक्तं श्रद्धायुक्तेन चेतसा । तेन पुण्यप्रभावेन भविष्यति पुरं ध्रुवम्
सर्वकामसमृद्धं च यावदाभूतसंप्लवम् । एवं सा नृपशार्दूल रमते पतिना सह
दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिता । शोभनोऽपि तया सार्द्धं रमते दिव्यविग्रहः
रमाव्रतप्रभावेन मंदराचलसानुनि । चिंतामणिसमा ह्येषा कामधेनुसमाथ वा
रमाभिधाना नृपते तवाग्रे कथिता मया । तस्या माहात्म्यमनघ श्रुतं सर्वं त्वया नृप 6.60.
मया तवाग्रे कथितं माहात्म्यं पापनाशनम् । एकादशीव्रतानां च पक्षयोरुभयोरपि
यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेत् । सेवितैकादशी नॄणां भुक्तिमुक्तिप्रदायिनी
धेनुः श्वेता यथा कृष्णा उभयोः सदृशं पयः । तथैव तुल्यफलदं स्मृतमेकादशीद्वयम्
एकादशीव्रतानां यो माहात्म्यं शृणुते नरः । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे कार्तिक कृष्णा रमैकादशीनाम षष्टितमोऽध्यायः
युधिष्ठिर उवाच- श्रुतं रमाया माहात्म्यं त्वत्तः कृष्ण यथातथम् । कार्तिके शुक्लपक्षे या तां मे कथय मानद
श्रीकृष्ण उवाच-। शृणु राजन्प्रवक्ष्यामि शुक्ले चोर्जदले तु या । सा यथा नारदे प्रोक्ता ब्रह्मणा लोककारिणा
नारद उवाच - प्रबोधिन्याश्च माहात्म्यं वद विस्तरतो मम । यस्यां जागर्ति गोविंदो धर्मकर्मप्रवर्त्तकः
ब्रह्मोवाच- प्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् । मुक्तिप्रदं सुबुद्धीनां शृणुष्व मुनिसत्तम
तावद्गर्जंति तीर्थानि आसमुद्रसरांसि च । यावत्प्रबोधिनी विष्णोस्तिथिर्नायाति कार्तिके
तावद्गर्जंति विप्रेंद्र गंगाभागीरथी क्षितौ । यावन्नायाति पापघ्नी कार्तिके हरिबोधिनी
अश्वमेधसहस्राणि राजसूयशतानि च । एकेनैवोपवासेन प्रबोधिन्या लभेन्नरः
यद्दुर्ल्लभं यदप्राप्यं त्रैलोक्यस्य न गोचरम् । तदप्यप्रार्थितं पुत्रं ददाति हरिबोधिनी
ऐश्वर्यं संपदं प्रज्ञां राज्यं च सुखसंपदः । ददात्युपोषिता भक्त्या जनेभ्यो हरिबोधिनी
मेरुमन्दरमात्राणि पापान्युक्तानि यानि च । एकेनैवोपवासेन दहते पापनाशिनी
पूर्वजन्मसहस्रेषु यत्पापं समुपार्जितम् । निशि जागरणं चास्या दहते तूलराशिवत्
उपवासं प्रबोधिन्यां यः करोति स्वभावतः । विधिवन्मुनिशार्दूल यथोक्तं लभते फलम्
यथोक्तं कुरुते यस्तु विधिवत्सुकृतं नरः । स्वल्पं मुनिवरश्रेष्ठ मेरुतुल्यं भवेत्फलम्
विधिहीनं तु यः कुर्यात्सुकृतं मेरुमात्रकम् । अणुमात्रं तदाप्नोति फलं धर्मस्य नारद
ये ध्यायंति मनोवृत्या ये करिष्यंति बोधिनीम् । वसंति पितरो हृष्टा विष्णुलोके च तस्य वै
विमुक्ता नारकैर्दुःखैर्याति विष्णोः परं पदम् । कृत्वा तु पातकं घोरं ब्रह्महत्यादिकं नरः
कृत्वा तु जागरं विष्णोर्द्धौतपापो भवेन्नरः । दुष्प्राप्यं यत्फलं विप्र अश्वमेधादिकैर्मखैः
प्राप्यते तत्सुखेनैव प्रबोधिन्यास्तु जागरे । आप्लुत्य सर्वतीर्थेषु प्रदत्त्वा कांचनं महीम्