मानवैश्च कुतः कांत भुज्यते हरिवासरे । यदि त्वं भोक्ष्यसे कांत ततो गर्हां प्रयास्यसि
एवं विचार्य मनसा सुदृढं मानसं कुरु । शोभन उवाच- सत्यमेतत्प्रिये वाक्यं करिष्येऽहमुपोषणम्
दैवेन विहितं यद्धि तत्तथैव भविष्यति । इति दृढां मतिं कृत्वा चकार नियमं व्रते
क्षुधया पीडिततनुः स बभूवातिदुःखितः । इति चिंतयतस्तस्य आदित्योऽस्तमगाद्गिरिम्
वैष्णवानां नराणां सा निशा हर्षविवर्द्धनी । हरिपूजारतानां च जागरासक्तचेतसाम्
बभूव नृपशार्दूल शोभनस्यातिदुःखदा । रवेरुदयवेलायां शोभनः पंचतां गतः
दाहयामास राजा तं राजयोग्यैश्च दारुभिः । चंद्रभागा नात्मदेहं ददाह पतिना सह
कृत्वौर्द्ध्वदैहिकं तस्य तस्थौ जनकवेश्मनि । शोभनश्च नृपश्रेष्ठ रमाव्रतप्रभावतः
प्राप्तो देवपुरं रम्यं मंदराचलसानुनि । अनुत्तममनाधृष्यमसंख्येयगुणान्वितम्
हेमस्तंभमयैसौधै रत्नवैडूर्यमंडितैः । स्फाटिकैर्विविधाकारैर्विचित्रैरुपशोभितैः
सिंहासनसमारूढः सुश्वेतच्छत्रचामरः । किरीटकुंडलयुतो हारकेयूरभूषितः । स्तूयमानश्च गंधर्वैरप्सरोगणसेवितः
शोभनः शोभते यत्र राजराजोपरो यथा । सोमशर्मेति विख्यातो मुचुकुंदपुरेऽभवत्
तीर्थयात्राप्रसंगेन भ्रमन्विप्रो ददर्श तम् । नृपजामातरं ज्ञात्वा तत्समीपं जगाम सः
शोभनोऽपि तदा ज्ञात्वा सोमशर्माणमागतम् । आसनादुत्थितः शीघ्रं नमश्चक्रे द्विजोत्तमम्
चकार कुशलप्रश्नं श्वशुरस्य नृपस्य च । कांतायाश्चंद्रभागायास्तथैव नगरस्य च
सोमशर्मोवाच- कुशलं वर्त्तते राजन्श्वशुरस्य गृहे तव । चंद्रभागा कुशलिनी सर्वतः कुशलं पुरे
स्ववृत्तं कथ्यतां राजन्नाश्चर्यं विद्यतेऽद्भुतम् । पुरं विचित्रं रुचिरं न दृष्टं केनचित्क्वचित्
एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वया । शोभन उवाच- कार्तिकस्यासिते पक्षे या नामैकादशी रमा
तामुपोष्य मया प्राप्तं द्विजेंद्र पुरमध्रुवम् । ध्रुवं भवति येनैव तत्कुरुष्व द्विजोत्तमः
द्विज उवाच- कथमध्रुवमेतद्धि कथं हि भवति ध्रुवम् । तत्त्वं कथय राजेंद्र तत्करिष्यामि नान्यथा
शोभन उवाच- मयैतद्विहितं विप्र श्रद्धाहीनं व्रतोत्तमम् । तेनाहमध्रुवं मन्ये ध्रुवं भवति तच्छृणु
मुचुकुंदस्य दुहिता चंद्रभागा सुशोभना । तस्यै कथय वृत्तांतं ध्रुवमेतद्भविष्यति
कृष्ण उवाच- स श्रुत्वा वचनं तस्य मुचुकुंदपुरं गतः । उवाच सर्वं वृत्तांत्तं चंद्रभागाग्रतो द्विजः
सोमशर्मोवाच - प्रत्यक्षं दयितः कांतस्तव दृष्टो मया शुभे । इंद्रतुल्यमनाधृष्यं दृष्टं तस्य पुरं मया । अध्रुवं तेन तत्प्रोक्तं ध्रुवं भवति तत्कुरु
चंद्रभागोवाच- तत्र मां नय विप्रर्षे पतिदर्शनलालसाम् । आत्मनो व्रतपुण्येन करिष्यामि पुरं ध्रुवम्
आवयोर्द्विजसंयोगो यथा भवति तत्कुरु । प्राप्यते हि महत्पुण्यं कृत्वा योगं वियुक्तयोः
इति श्रुत्वा सह तया सोमशर्मा जगाम ह । आश्रमं वामदेवस्य मंदराचलसंनिधौ
वामदेवोऽशृणोत्सर्वं वृत्तांतं कथितं तयोः । अभ्यषिञ्चच्चन्द्रभागां वेदमंत्रैरथोज्ज्वलाम्
ऋषिमंत्रप्रभावेन विष्णुवासरसेवनात् । दिव्यदेहा बभूवासौ दिव्यां गतिमवाप ह
पत्युः समीपमगमत्प्रहर्षोत्फुल्ललोचना । जहर्ष शोभनोऽतीव दृष्ट्वा कांतां समागताम्