मुचुकुंद इति ख्यातो बभूव नृपतिः पुरा । देवेंद्रेण समं तस्य मित्रत्वमभवन्नृप
यमेन वरुणेनैव कुबेरेणापि सर्वथा । विभीषणेन यस्यैव सखित्वमभवन्नृप
विष्णुभक्तः सत्यसंधो बभूव नृपतिः परः । तस्यैवं शासतो राजन्राज्यं निहतकंटकम्
बभूव दुहिता गेहे चंद्रभागा सरिद्वरा । शोभनाय च सा दत्ता चंद्रसेनसुताय वै
स कदाचित्समायातः श्वशुरस्य गृहे नृप । एकादशीव्रतदिनं समायातं सुपुण्यदम्
समागते व्रतदिने चंद्रभागा त्वचिंतयत् । किं भविष्यति देवेश मम भर्त्तातिदुर्बलः
क्षुधां न क्षमते सोढुं पिता चैवोग्रशासनः । पटहस्ताड्यते यस्य संप्राप्ते दशमीदिने
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने । श्रुत्वा पटहनिर्घोषं शोभनस्त्वब्रवीत्प्रियाम्
किं कर्त्तव्यं मया कांते देहि शिक्षां वरानने । चंद्रभागोवाच - मत्पितुर्वेश्मनि प्रभो भोक्तव्यं नाद्य केनचित्
गजैरश्वैश्च कलभैरन्यैः पशुभिरेव च । तृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने
मानवैश्च कुतः कांत भुज्यते हरिवासरे । यदि त्वं भोक्ष्यसे कांत ततो गर्हां प्रयास्यसि
एवं विचार्य मनसा सुदृढं मानसं कुरु । शोभन उवाच- सत्यमेतत्प्रिये वाक्यं करिष्येऽहमुपोषणम्
दैवेन विहितं यद्धि तत्तथैव भविष्यति । इति दृढां मतिं कृत्वा चकार नियमं व्रते
क्षुधया पीडिततनुः स बभूवातिदुःखितः । इति चिंतयतस्तस्य आदित्योऽस्तमगाद्गिरिम्
वैष्णवानां नराणां सा निशा हर्षविवर्द्धनी । हरिपूजारतानां च जागरासक्तचेतसाम्
बभूव नृपशार्दूल शोभनस्यातिदुःखदा । रवेरुदयवेलायां शोभनः पंचतां गतः
दाहयामास राजा तं राजयोग्यैश्च दारुभिः । चंद्रभागा नात्मदेहं ददाह पतिना सह
कृत्वौर्द्ध्वदैहिकं तस्य तस्थौ जनकवेश्मनि । शोभनश्च नृपश्रेष्ठ रमाव्रतप्रभावतः
प्राप्तो देवपुरं रम्यं मंदराचलसानुनि । अनुत्तममनाधृष्यमसंख्येयगुणान्वितम्
हेमस्तंभमयैसौधै रत्नवैडूर्यमंडितैः । स्फाटिकैर्विविधाकारैर्विचित्रैरुपशोभितैः
सिंहासनसमारूढः सुश्वेतच्छत्रचामरः । किरीटकुंडलयुतो हारकेयूरभूषितः । स्तूयमानश्च गंधर्वैरप्सरोगणसेवितः
शोभनः शोभते यत्र राजराजोपरो यथा । सोमशर्मेति विख्यातो मुचुकुंदपुरेऽभवत्
तीर्थयात्राप्रसंगेन भ्रमन्विप्रो ददर्श तम् । नृपजामातरं ज्ञात्वा तत्समीपं जगाम सः
शोभनोऽपि तदा ज्ञात्वा सोमशर्माणमागतम् । आसनादुत्थितः शीघ्रं नमश्चक्रे द्विजोत्तमम्
चकार कुशलप्रश्नं श्वशुरस्य नृपस्य च । कांतायाश्चंद्रभागायास्तथैव नगरस्य च
सोमशर्मोवाच- कुशलं वर्त्तते राजन्श्वशुरस्य गृहे तव । चंद्रभागा कुशलिनी सर्वतः कुशलं पुरे
स्ववृत्तं कथ्यतां राजन्नाश्चर्यं विद्यतेऽद्भुतम् । पुरं विचित्रं रुचिरं न दृष्टं केनचित्क्वचित्
एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वया । शोभन उवाच- कार्तिकस्यासिते पक्षे या नामैकादशी रमा
तामुपोष्य मया प्राप्तं द्विजेंद्र पुरमध्रुवम् । ध्रुवं भवति येनैव तत्कुरुष्व द्विजोत्तमः
द्विज उवाच- कथमध्रुवमेतद्धि कथं हि भवति ध्रुवम् । तत्त्वं कथय राजेंद्र तत्करिष्यामि नान्यथा