अश्वमेधसहस्राणि राजसूयशतानि च । एकादश्युपवासस्य कलां नार्हंति षोडशीम्
एकादशीसमं किंचिद्व्रतं लोके न विद्यते । व्याजेनापि कृता यैश्च न ते यांति हि भास्करिम्
स्वर्गमोक्षप्रदा ह्येषा शरीरारोग्यदायिनी । कलत्रसुतदा ह्येषा धनमित्रप्रदायिनी
न गंगा न गया राजन्न च काशी च पुष्करम् । न चापि कौरवं क्षेत्रं पुण्यं भूप हरेर्दिनात्
रात्रौ जागरणं कृत्वा समुपोष्य हरेर्दिनम् । अनायासेन भूपाल प्राप्यते वैष्णवं पदम्
दशैव मातृके पक्षे राजेंद्र दश पैतृके । प्रियाया दशपक्षे तु पुरुषानुद्धरेन्नरः
चतुर्भुजा दिव्यरूपा नागारिकृतकेतनाः । स्रग्विणः पीतवस्त्राश्च प्रयांति हरिमंदिरम्
बालत्वे यौवनत्वे च वृद्धत्वे च नृपोत्तम । उपोष्यैकादशीं नूनं नैव प्राप्नोति दुर्गतिम्
पापांकुशामुपोष्यैव आश्विनस्य सिते नरः । सर्वपापविनिर्मुक्तो हरिलोकं स गच्छति
दत्त्वा हेमतिलान्भूमिं गामन्नमुदकं तथा । उपानच्छत्रवस्त्रादीन्न पश्यति यमं नरः
यस्य पुण्यविहीनानि दिनान्यायांति यांति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति
अवंध्यं दिवसं कुर्याद्दरिद्रोऽपि नृपोत्तम । सदाचरन्यथाशक्ति स्नानदानादिकाः क्रियाः
होमस्नानजपध्यानसत्रादिपुण्यकर्मणाम् । कर्त्तारो नैव पश्यंति घोरां तां यमयातनाम्
दीर्घायुषो धनाढ्याश्च कुलीना रोगवर्जिताः । दृश्यंते मानवा लोके पुण्यकर्त्तार ईदृशाः
किमत्र बहुनोक्तेन यांत्यधर्मेण दुर्गतिम् । आरोहंति दिवं धर्मैर्नात्रकार्या विचारणा
इति ते कथितं राजन्यत्पृष्टोऽहं त्वयानघ । पापांकुशाया माहात्म्यं किमन्यच्छ्रोतुमिच्छसि
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे आश्विनशुक्लपापांकुशैकादशीमाहात्म्यनामैकोनषष्टितमोऽध्यायः
युधिष्ठिर उवाच- कथयस्व प्रसादेन मयि स्नेहाज्जनार्दन । कार्त्तिकस्यासिते पक्षे किंनामैकादशी भवेत्
श्रीकृष्ण उवाच- श्रूयतां राजशार्दूल कथयामि तवाग्रतः । कार्त्तिके कृष्णपक्षे तु रमा नाम सुशोभना
एकादशी समाख्याता महापापहरा परा । अस्याः प्रसंगतो राजन्माहात्म्यं प्रवदामि ते
मुचुकुंद इति ख्यातो बभूव नृपतिः पुरा । देवेंद्रेण समं तस्य मित्रत्वमभवन्नृप
यमेन वरुणेनैव कुबेरेणापि सर्वथा । विभीषणेन यस्यैव सखित्वमभवन्नृप
विष्णुभक्तः सत्यसंधो बभूव नृपतिः परः । तस्यैवं शासतो राजन्राज्यं निहतकंटकम्
बभूव दुहिता गेहे चंद्रभागा सरिद्वरा । शोभनाय च सा दत्ता चंद्रसेनसुताय वै
स कदाचित्समायातः श्वशुरस्य गृहे नृप । एकादशीव्रतदिनं समायातं सुपुण्यदम्
समागते व्रतदिने चंद्रभागा त्वचिंतयत् । किं भविष्यति देवेश मम भर्त्तातिदुर्बलः
क्षुधां न क्षमते सोढुं पिता चैवोग्रशासनः । पटहस्ताड्यते यस्य संप्राप्ते दशमीदिने
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं हरेर्दिने । श्रुत्वा पटहनिर्घोषं शोभनस्त्वब्रवीत्प्रियाम्
किं कर्त्तव्यं मया कांते देहि शिक्षां वरानने । चंद्रभागोवाच - मत्पितुर्वेश्मनि प्रभो भोक्तव्यं नाद्य केनचित्
गजैरश्वैश्च कलभैरन्यैः पशुभिरेव च । तृणमन्नं तथा वारि न भोक्तव्यं हरेर्दिने