नारदउवाच- शृणु राजेंद्र ते वच्मि व्रतस्यास्य विधिं शुभम् । आश्विनस्यासिते पक्षे दशमी दिवसे शुभे
प्रातःस्नानं प्रकुर्वीत श्रद्धायुक्तेन चेतसा । ततो मध्याह्नसमये स्नानं कृत्वा समाहितः
पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः । एकभक्तं ततः कृत्वा रात्रौ भूमौ शयीत च । प्रभाते विमले जाते प्राप्ते चैकादशी दिने
मुख प्रक्षालनं कुर्याद्दंतधावन वर्जितम् । उपवासस्य नियमं गृह्णीयाद्भक्तिभावतः
अद्यस्थित्वा निराहारः सर्वभोग विवर्जितः । श्वो भोक्ष्ये पुंडरीकाक्ष शरणं मे भवाच्युत
इत्येवं नियमं कृत्वा मध्याह्न समये तथा । शालग्राम शिलाग्रे तु स्नानं कुर्याद्यथाविधि
पूजयित्वा हृषीकेशं धूप गंधादिभिस्तथा । रात्रौ जागरणं कुर्यात्केशवस्य समीपतः
ततः प्रभातसमये प्राप्ते वै द्वादशी दिने । अर्चयित्वा हरिं भक्त्या श्राद्धं कुर्याद्यथाविधि
पितॄणां प्रीतये श्राद्धं कुर्याच्छ्रद्धा समन्वितः । गोधूम चूर्णैर्यछ्राद्धं कृतं मेध्यकृतं भवेत्
यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा । ब्राह्मणान्भोजयेद्राजन् दक्षिणाभिः प्रपूजितान्
बंधु दौहित्र पुत्राद्यैः स्वयं भुंजीत वाग्यतः । अनेन विधिना राजन्कुरुव्रतमतंद्रितः
विष्णुलोकं प्रयास्यंति पितरस्तव भूपते । इत्युक्त्वा नृपतिं राजन्मुनिरंतरधीयत
यथोक्त विधिना राजा चकार व्रतमुत्तमम् । अंतःपुरेण सहितः पुत्रभृत्य समन्वितः
कृते व्रते तु कौंतेय पुष्पवृष्टिरभूद्दिवः । तत्पिता गरुडारूढो जगाम हरिमंदिरम्
इंद्रसेनोऽपिराजर्षिः कृत्वा राज्यमकंटकम् । राज्ये निवेश्य तनयं जगाम त्रिदिवं स्वयम्
इंदिरा व्रत माहात्म्यं तवाग्रे कथितं मया । पठनाच्छ्रवणाद्राजन् सर्वपापैः प्रमुच्यते
भुक्त्वेह निखिलान्भोगान् विष्णुलोके वसेच्चिरम्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यांसंहितायाम् उत्तरखंडे । उमापतिनारदसंवादे आश्विनकृष्णेंदिरैकादशीनामाष्टपंचाशत्तमोऽध्यायः
युधिष्ठिर उवाच- कथयस्व प्रसादेन ममाग्रे मधुसूदन । इषस्य शुक्लपक्षे तु किं नामैकादशीभवेत्
श्रीकृष्ण उवाच- शृणुराजेंद्र वक्ष्यामि माहात्म्यं पाप नाशनम् । शुक्लपक्षे चाश्विनस्य भवेदेकादशी तु या
पापांकुशेति विख्याता सर्वपापहरा परा । पद्मनाभाभिधानं मां पूजयेत्तत्र मानवः
सर्वाभीष्ट फलं प्राप्तौ स्वर्गमोक्षप्रदं नृणाम् । तपस्तप्त्वा पुनस्तीव्रं चिरं सुनियतेन्द्रियः
यत्फलं समवाप्नोति तन्न त्वा गरुडध्वजम् । कृत्वापि बहुशःपापं नरो मोह समन्वितः
न याति नरकं नत्वा सर्वपापहरं हरिम् । पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च
तानि सर्वाण्यवाप्नोति विष्णोर्नामानुकीर्त्तनात् । देवं शार्ङ्गधरं विष्णुं ये प्रपन्ना जनार्दनम्
न तेषां यमलोकस्य यातना जायते क्वचित् । उपोष्यैकादशीमेकां प्रसंगेनापि मानवः । न याति यातनां यामीं पापं कृत्वापि दारुणम्
वैष्णवः पुरुषो भूत्वा शिवनिंदां करोति यः । न विंदेद्वैष्णवं लोकं स याति नरकं ध्रुवम्
शैवः पाशुपतो भूत्वा विष्णुनिंदां करोति चेत् । रौरवे पच्यते घोरे यावदिन्द्राश्चतुर्दश
नेदृशं पावनं किंचित्त्रिषु लोकेषु विद्यते । यादृशं पद्मनाभस्य व्रतं पातकनाशनम्
तावत्पापानि देहेऽस्मिन्तिष्ठंति मनुजाधिपम् । यावन्नोपवसेज्जंतुः पद्मनाभदिनं शुभम्