राजोवाच- नाहमेनं वधिष्यामि तपस्यंतमनागसम् । धर्मोपदेशं कथय उपसर्गविनाशनम्
ऋषिरुवाच- यद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम् । नभस्यस्य सिते पक्षे पद्मा नामेति विश्रुता
तस्या व्रतप्रभावेन सुवृष्टिर्भविता ध्रुवम् । सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी
अस्या व्रतं कुरु नृप सप्रजः सपरिच्छदः । इति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः
भाद्रमासे सिते पक्षे पद्माव्रतमथाकरोत् । प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः
एवं व्रते कृते राजन्प्रववर्ष बलाहकः । जलेन प्लाविता भूमिरभवत्सस्यशालिनी
ऋषीश्वरप्रभावेन लोकाः सौख्यं प्रपेदिरे । एतस्मात्कारणादेवं कर्त्तव्यं व्रतमुत्तमम्
दध्योदनयुतं तस्यां जलपूर्णं घटं द्विजे । वस्त्रसंवेष्टितं दत्त्वा छत्रोपानहमेव च
नमो नमस्ते गोविंद बुधश्रवणसंज्ञक । अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव
भुक्तिमुक्तिप्रदश्चैव लोकानां सुखदायकः । पठनाच्छ्रवणाद्राजन्सर्वपापैः प्रमुच्यते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे भाद्रपदशुक्ला पद्मैकादशीनाम सप्तपंचाशत्तमोऽध्यायः
युधिष्ठिर उवाच- कथयस्व प्रसादेन ममाग्रे मधुसूदन । इषस्य कृष्णपक्षे तु किंनामैकादशीभवेत्
श्रीकृष्ण उवाच- आश्विने कृष्णपक्षे तु इंदिरा नाम नामतः । तस्या व्रतप्रभावेन महापापं प्रणश्यति
अधोयोनि गतानां च पितॄणां गतिदायिनी । शृणुष्वावहितो राजन्कथां पापहरां पराम्
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् । पुरा कृतयुगे राजन्बभूव नृपनंदनः
इंद्रसेन इति ख्यातः पुरा माहिष्मतीपतिः । स राजा पालयामास धर्मेण यशसान्वितः
पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः । माहिष्मत्यधिपो राजा विष्णुभक्तिपरायणः
जपन्गोविंदनामानि मुक्तिदानि नराधिपः । कालं नयति विधिवदध्यात्मध्यानचिंतकः
एकस्मिन्दिवसे राज्ञि सुखासीने सदो गते । अवतीर्यागमत्तत्र ह्यंबरान्नारदो मुनिः
तमागतमभिप्रेक्ष्य प्रत्युत्थाय कृतांजलि । पूजयित्वाथ विधिना चासने संन्यवेशयत्
सुखोपविष्टं स मुनिं प्रत्युवाच नृपोत्तमः । राजोवाच-। त्वत्प्रसादान्मुनिश्रेष्ठ सर्वं च कुशलं मम
अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात् । प्रसादं कुरु देवर्षे ब्रूह्यागमनकारणम्
नारद उवाच- श्रूयतां नृपशार्दूल मद्वचो विस्मयप्रदम् । ब्रह्मलोकादहं प्राप्तो यमलोकं नृपोत्तम
शमनेनार्चितो भक्त्या उपविष्टो वरासने । धर्मशीलः सत्यवांस्तु भास्करिं समुपासते
बहुपुण्यप्रकर्त्ता च व्रतवैकल्यदोषतः । सभायां श्राद्धदेवस्य मया दृष्टः पिता तव
कथितस्तेन संदेशस्तं निबोध जनेश्वर । इंद्रसेन इति ख्यातो राजा माहिष्मतीपतिः
तस्याग्रे कथयब्रह्मन्स्थितं मां यमसंनिधौ । केनापि चांतरायेण पूर्वजन्मोद्भवेन च
स्वर्गं प्रेषय मां पुत्र इंदिरा पुण्य दानतः । इत्युक्तोऽहं समायातः समीपं तव पार्थिव
पितुः स्वर्गकृते राजन्निंदिरा व्रतमाचर । तेन व्रतप्रभावेन स्वर्गं यास्यति ते पिता
राजोवाच- कथयस्व प्रसादेन भगवन्निंदिरा व्रतम् । विधिना केन कर्त्तव्यं कस्मिन्पक्षे तिथौ तथा