श्रीकृष्ण उवाच- कथयामि महीपाल कथामाश्चर्यकारिणीम् । कथयामास यां ब्रह्मा नारदाय महात्मने
नारद उवाच- कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु ते । नभस्य शुक्लपक्षे तु किं नामैकादशी भवेत् । एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै
ब्रह्मोवाच- वैष्णवोऽसि मुनिश्रेष्ठ साधुपृष्टं किल त्वया । नातः परतरा लोके पवित्रा हरिवासरात्
पद्मा नामेति विख्याता नभस्यैकादशी सिता । हृषीकेशः पूज्यतेऽस्यां कर्त्तव्यं व्रतमुत्तमम्
कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम् । यस्याः श्रवणमात्रेण महापापं प्रणश्यति
मांधाता नाम राजर्षिर्विवस्वद्वंशसंभवः । बभूव चक्रवर्ती स सत्यसंधः प्रतापवान्
धर्मतः पालयामास प्रजाः पुत्रानिवौरसान् । न तस्य राज्ये दुर्भिक्षं नाधयो व्याधयस्तथा
निरातंकाः प्रजास्तस्य धनधान्यसमेधिताः । न्यायेनोपार्जितं वित्तं तस्य कोशे महीपते
स्वस्वधर्मे प्रवर्त्तंते सर्वे वर्णाश्रमास्तथा । कामधेनुसमाभूमिस्तस्य राज्ये महीपतेः
तस्यैवं कुर्वतो राज्यं बहुवर्षगणा गताः । अथैकस्मिंश्च संप्राप्ते विपाकः कर्मणः खलु
वर्षत्रयं तद्विषये न ववर्ष बलाहकः । तेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयार्दिताः
स्वाहा स्वधा वषट्कार वेदाध्ययनवर्जिताः । बभूव विषयस्तस्या भाग्येन दैवपीडितः । अथ प्रजाः समागम्य राजानमिदमब्रुवन्
प्रजा ऊचुः - श्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वया । आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः
अयनं भगवतस्तस्मान्नारायण इति स्मृतः । पर्जन्यरूपो भगवान्विष्णुः सर्वगतः स्थितः
स एवं कुरुते वृष्टिं वृष्टेरन्नं ततः प्रजाः । तदभावे नृपश्रेष्ठ क्षयं गच्छंति वै प्रजाः । तथा कुरु नृपश्रेष्ठ योगः क्षेमो यथा भवेत्
राजोवाच-। सत्यमुक्तं भवद्भिश्च न मिथ्याभिहितं क्वचित् । अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्वं प्रतिष्ठितम्
अन्नाद्भवंति भूतानि जगदन्नेन वर्तते । इत्येवं श्रूयते लोके पुराणे बहुविस्तरे
नृपाणामपचारेण प्रजानां पीडनं भवेत् । नाहं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन्
तथापि प्रयतिष्यामि प्रजानां हितकाम्यया । इति कृत्वा मतिं राजा परिमेयपरिच्छदः
नमस्कृत्य विधातारं जगाम गहनं वनम् । चचार मुनिमुख्यांश्च आश्रमान्तापसैः श्रितान्
ददर्शाथ ब्रह्मसुतमृषिमांगिरसं नृपः । तेजसा द्योतितदिशं द्वितीयमिव पद्मजम्
तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात् । नमश्चक्रेऽस्य चरणौ कृतांजलिपुटो वशी
मुनिस्तमभिनंद्याथ स्वस्तिवाचनपूर्वकम् । पप्रच्छ कुशलं राज्ये सप्तस्वंगेषु भूपतेः
निवेदयित्वा कुशलं पप्रच्छानामयं नृपः । दत्तासनो गृहीतार्घ्य उपविष्टोऽस्य संनिधौ
प्रत्युवाच मुनिं राजा पृष्टो ह्यागमकारणम्
राजोवाच- भगवन्धर्मविधिना मम पालयतो महीम् । अनावृष्टिश्च संवृत्ता नाहं वेद्म्यत्र कारणम्
संशयच्छेदनायात्र आगतोऽहं तवांतिके । योगक्षेमविधानेन प्रजानां कुरु निर्वृतिम्
ऋषिरुवाच- एतत्कृतयुगं राजन्युगानामुत्तमं मतम् । अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः
अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरा जनाः । विषये तव राजेंद्र वृषलोऽयं तपस्यति
एतस्मात्कारणाच्चैव न वर्षति बलाहकः । कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति