नाराचेनातितीक्ष्णेन प्राप्तकालं जघान ह । स्रवच्छोणितधाराभिः प्लाविताङ्गः स मूषकः
पपात भूमौ विप्रर्षे व्यथया हतचेतनः । आखौ निपतिते तस्मिन्दयालुर्द्विजसत्तमः
हाहाकारं ततः कृत्वा समुत्तस्थौ जवेन सः । निजकर्णात्समानीय तुलसीपत्रमुत्तमम्
तस्याखोर्वदने शीर्षे कर्णयोश्च प्रदत्तवान् । मातस्तु तुलसीदेवि गोविन्दह्लादकारिणि
अस्याखोः कृतपापस्य कुरु त्वं गतिमुत्तमाम् । इत्युक्त्वा सद्विजश्रेष्ठ सर्वलोकोपकारकः
हरेनारायणानन्त इत्युच्चैरकरोद्ध्वनिम् । तुलसीपत्रसंस्पर्शान्मूषको वीतकल्मषः
श्रवणाद्धरिनाम्नश्च मुक्तोऽभूद्भवबंधनात् । ततो दूता महाविष्णोः सर्वलक्षणसंयुताः
आजग्मुः सुरथैः शीघ्रं नेतुं तं गतकल्मषम् । समारुह्य रथं दिव्यं विष्णुदूतगणैर्वृताः
जगाम परमं स्थानं मूषको द्विजसत्तम । युगकोटिसहस्राणि स्थित्वा नारायणाश्रमे
ज्ञानमासाद्य तत्रैव मोक्षमाखुर्जगाम सः । व्यास उवाच- माहात्म्यं तुलसीदेव्याः कथितं ते द्विजोत्तम
इदानीं ब्रूहि किं श्रोतुं महाभाग त्वमिच्छसि
श्रीविष्णवे नमः स्वच्छं चंद्रावदातं करिकरमकरक्षोभसंजातफेनं। ब्रह्मोद्भूतिप्रसक्तैर्व्रतनियमपरैः सेवितं विप्रमुख्यैः। कारालंकृतेन त्रिभुवनगुरुणा ब्रह्मणा दृष्टिपूतं। संभोगाभोगरम्यं जलमशुभहरं पौष्करं वः पुनातु
सूतमेकांतमासीनं व्यासशिष्यं महामतिः। लोमहर्षणनामा वा उग्रश्रवसमाह तत्
ऋषीणामाश्रमांस्तात गत्वा धर्मान्समासतः। पृच्छतां विस्तराद्ब्रूहि यन्मत्तः श्रुतवानसि
वेदव्यासान्मया पुत्र पुराणान्यखिलानि च। तवाख्यातानि प्राप्तानि मुनिभ्यो वद विस्तरात्
प्रयागे मुनिवर्यैश्च यथापृष्टः स्वयं प्रभुः। पृष्टेन चानुशिष्टास्ते मुनयो धर्मकांक्षिणः
देशं पुण्यमभीप्संतो विभुना च हितैषिणा। सुनाभं दिव्यरूपं च सत्यगं शुभविक्रमं
अनौपम्यमिदं चक्रं वर्तमानमतंद्रिताः। पृष्टतो यातनियमात्पदं प्राप्स्यथ यद्धितम्
गच्छतो धर्मचक्रस्य यत्र नेमिर्विशीर्यते। पुण्यः स देशो मंतव्य इत्युवाच स्वयं प्रभुः
उक्त्वा चैवमृषीन्सर्वानदृश्यत्वमगात्पुनः। गंगावर्तसमाहारो नेमिर्यत्र व्यशीर्यत
ईजिरे दीर्घसत्रेण ऋषयो नैमिषे तदा। तत्र गत्वा तु तान्ब्रूहि पृच्छतो धर्मसंशयान्
उग्रश्रवास्ततो गत्वा ज्ञानविन्मुनिपुंगवान्। अभिगम्योपसंगृह्य नमस्कृत्वा कृतांजलिः
तोषयामास मेधावी प्रणिपातेन तानृषीन्। ते चापि सत्रिणः प्रीताः ससदस्या महात्मने
तस्मै समेत्य पूजां च यथावत्प्रतिपेदिरे। ऋषय ऊचुः। कुतस्त्वमागतः सूत कस्माद्देशादिहागतः
कारणं चागमे ब्रूहि वृंदारकसमद्युते। सूत उवाच। पित्राहं तु समादिष्टो व्यासशिष्येण धीमता
शुश्रूषस्व मुनीन्गत्वा यत्ते पृच्छंति तद्वद। वदंतु भगवंतो मां कथयामि कथां तु यां
पुराणं चेतिहासं वा धर्मानथ पृथग्विधान्। तां गिरं मधुरां तस्य शुश्रुवुर्ऋषिसत्तमाः
अथ तेषां पुराणस्य शुश्रूषा समपद्यत। दृष्ट्वा तमतिविश्वस्तं विद्वांसं लौमहर्षणिं
तस्मिन्सत्रे कुलपतिस्सर्वशास्त्राविशारदः। शौनको नाम मेधावी विज्ञानारण्यके गुरुः
इत्थं तद्भावमालंब्य धर्माञ्छुश्रूषुराह तम्। त्वया सूत महाबुद्धे भगवान्ब्रह्मवित्तमः