ब्राह्मणान्वैष्णवांश्चैव गंधपुष्पादिनार्चयेत् । अतो देवेति मंत्रेण द्विजो विष्णौ निवेदयेत्
शूद्रस्तु मूलमंत्रेण यथा विष्णौ तथा शिवे । वर्षेवर्षे प्रकर्त्तव्यं पवित्रारोपणं नरैः
भुक्तिं मुक्तिं च इच्छद्भिः संसारे शोकसागरे । न करोति विधानेन पवित्रारोपणं तु यः
तस्य सांवत्सरी पूजा निष्फला वैष्णवस्य तु । श्रुत्वा माहात्म्यमेतस्या नरः पापात्प्रमुच्यते । इह पुत्रसुखं प्राप्य परत्र स्वर्गतिं भवेत्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहिता। यामुत्तरखंडे उमापतिनारदसंवादे श्रावणशुक्लापवित्रारोपणी पुत्रदैकादशीनाम पंचपंचाशत्तमोऽध्यायः
युधिष्ठिर उवाच- भाद्रस्य कृष्णपक्षे तु किंनामैकादशीभवेत् । एतदिच्छाम्यहं श्रोतुं कथयस्व जनार्दन
श्रीकृष्ण उवाच- शृणुष्वैकमना राजन्कथयिष्यामि विस्तरात् । अजेति नामतः प्रोक्ता सर्वपापप्रणाशिनी
पूजयित्वा हृषीकेशं व्रतमस्यां करोति यः । पापानि तस्य नश्यंति व्रतस्य श्रवणादपि
नातः परतरा राजन्लोकद्वयहिताय वै । सत्यमुक्तं मया ह्येतन्नासत्यं मम भाषितम्
हरिश्चन्द्र इति ख्यातो बभूव नृपतिः पुरा । चक्रवर्ती सत्यसंधः समस्ताया भुवः पतिः
कस्यापि कर्मणः प्राप्तौ राज्यभ्रष्टो बभूव सः । विक्रीतौ वनितापुत्रौ स चकारात्मविक्रयम्
पुल्कसस्य च दासत्वं गतो राजा स पुण्यकृत् । सत्यमालंब्य राजेंद्र मृतचैलापहारकः
सोऽभवन्नृपतिश्रेष्ठो न सत्याच्चलितस्तथा । एवं च तस्य नृपतेर्बहवो वत्सरा गताः
ततश्चिंतापरो राजा स बभूवातिदुःखितः । किं करोमि क्व गच्छामि निष्कृतिर्मे कथं भवेत्
इति चिंतयतस्तस्य मग्नस्य वृजिनार्णवे । आजगाम मुनिः कश्चिज्ज्ञात्वा राजानमातुरम्
परोपकारणार्थाय निर्मिता ब्रह्मणा द्विजाः । स तं दृष्ट्वा द्विजवरं ननाम नृपसत्तमः
कृतांजलिपुटो भूत्वा गौतमस्याग्रतः स्थितः । कथयामास वृत्तांतमात्मनो दुःखसंयुतम्
श्रुत्वा नृपतिवाक्यानि गौतमो विस्मयान्वितः । उपदेशं नृपतये व्रतस्यास्य ददौ मुनिः
मासि भाद्रपदे राजन्कृष्णपक्षेति शोभना । एकादशी समायाता अजा नामेति पुण्यदा
अस्याः कुरु व्रतं राजन्पापस्यांतो भविष्यति । तव भाग्यवशादेषा सप्तमेऽह्नि समागता
उपवासपरो भूत्वा रात्रौ जागरणं कुरु । एवमस्या व्रते चीर्णे तव पापक्षयो ध्रुवम्
तव पुण्यप्रभावेण चागतोऽहं नृपोत्तम । इत्येवं कथयित्वा च मुनिरंतरधीयत
मुनिवाक्यं नृपः श्रुत्वा चकार व्रतमुत्तमम् । कृते तस्मिन्व्रते राज्ञः पापस्यांतोऽभवत्क्षणात्
श्रूयतां राजशार्दूल प्रभावोऽस्य व्रतस्य च । यद्दुःखंबहुभिर्वर्षैर्भोक्तव्यंतत्क्षयोभवेत्
निस्तीर्णदुःखो राजासीद्व्रतस्यास्य प्रभावतः । पत्न्या सह समायोगं पुत्रजीवनमाप सः
दिवि दुंदुभयो नेदुः पुष्पवर्षमभूद्दिवः । एकादश्याः प्रभावेन प्राप्यराज्यमकंटकम्
स्वर्गं लेभे हरिश्चंद्रः सपुरः सपरिच्छदः । ईदृग्विधं व्रतंराजन्ये कुर्वंति च मानवाः
सर्वपापविनिर्मुक्तास्त्रिदिवं यांति ते नृप । पठनाच्छ्रवणाद्वापि अश्वमेधफलं लभेत्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे भाद्रपदकृष्णाजैकादशीनाम षट्पंचाशत्तमोऽध्यायः
युधिष्ठिर उवाच - नभस्यस्य सिते पक्षे किंनामैकादशी भवेत् । को देवः को विधिस्तस्य एतदाख्याहि केशव