इति वाक्यं द्विजाः श्रुत्वा सप्रजाः सपुरोहिताः । मंत्रयित्वा नृपहितं जग्मुस्ते गहनं वनम्
इतस्ततश्च पश्यंत आश्रमानृषिसेवितान् । नृपतेर्हितमिच्छंतो ददृशुर्मुनिसत्तमम्
तप्यमानं तपो घोरं निरालंबं निरामयम् । निराहारं जितात्मानं जितक्रोधं सनातनम्
लोमशं धर्मतत्वज्ञं सर्वशास्त्रविशारदम् । दीर्घायुषं महात्मानं सकेशं ब्रह्मसंमितम्
कल्पेकल्पे गते तस्य एकं लोम विशीर्यते । अतो लोमशनामायं त्रिकालज्ञो महामुनिः
तं दृष्ट्वा हर्षिताः सर्वे आजग्मुस्तस्य सन्निधिम् । यथान्यायं यथार्हं ते नमश्चक्रुर्यथोदितम्
विनयावनताः सर्वे ऊचुस्ते च परस्परम् । अस्मद्भाग्यवशादेव प्राप्तोऽयं मुनिसत्तमः । तास्तथा स प्रजा वीक्ष्य उवाच ऋषिसत्तमः
लोमश उवाच- किमर्थमिह संप्राप्तः कथयध्वं सकारणम् । दर्शनाद्धृष्टमनसः स्तुवंतश्चैव मां किमु
असंशयं करिष्यामि भवतां यद्धितं भवेत् । परोपकृतये जन्म मादृशानां न संशयः
जना ऊचुः - श्रूयतामभिधास्यामो वयं स्वागमकारणम् । संशयच्छेदनार्थाय तव सान्निध्यमागताः
पद्मयोनेः परतरस्त्वत्तः श्रेष्ठो न विद्यते । अतः कार्यवशात्प्राप्ताः समीपं भवतो वयम्
महीजिन्नाम राजासौ पुत्रहीनोऽस्ति सांप्रतम् । वयं तस्य प्रजा ब्रह्मन्पुत्रवत्तेन पालिताः
तं पुत्ररहितं दृष्ट्वा तस्य दुःखेन दुःखिताः । तपः कर्तुमिहायाता मतिं कृत्वा तु नैष्ठिकीम्
तस्य भाग्येन दृष्टोऽसि ह्यस्माभिस्त्वं द्विजोत्तम । महतां दर्शनेनैव कार्यसिद्धिर्भवेन्नृणाम्
उपदेशं वद मुने राज्ञः पुत्रो यथा भवेत् । इति तेषां वचः श्रुत्वा मुहूर्त्तं ध्यानमास्थितः । प्रत्युवाच मुनिर्ज्ञात्वा तस्य जन्म पुरातनम्
लोमश उवाच- पुरा जन्मनि वैश्योऽयं धनहीनो नृशंसकृत् । वाणिज्यकर्मनिरतो ग्रामाद्ग्रामांतरं भ्रमन्
ज्येष्ठे मासि सिते पक्षे दशमी दिवसे तथा । मध्यगे द्युमणौ प्राप्ते ग्रामसीम्नि जलाशयम्
कूपिकां सजलां दृष्ट्वा जलपाने मनोदधे । सद्यस्ततः सवत्सा च धेनुस्तत्र समागता
तृष्णातुरा निदाघार्ता तस्यामंबुपपौ तु सा । पिबंतीं वारयित्वा तामसौ तोयं पपौ स्वयम्
कर्मणा तेन पापेन पुत्रहीनो नृपो भवेत् । कस्यापि जन्मनः पुण्यात्प्राप्तं राज्यमकंटकम्
लोका ऊचुः - पुण्यात्पापं क्षयं याति पुराणे श्रूयते मुने । पुण्योपदेशं कथय येन पापक्षयो भवेत् । यथा भवत्प्रसादेन पुत्रो भवति भूपतेः
लोमश उवाच- श्रावणे शुक्लपक्षे तु पुत्रदा नाम विश्रुता । एकादशी वांच्छितदा कुरुध्वं तद्व्रतं जनाः
इति श्रुत्वा नमस्कृत्य मुनिमेत्य पुरं व्रतम् । यथाविधियथान्यायं कृतं तैर्जागरान्वितम्
तस्य पुण्यं सुविमलं दत्तं नृपतये जनैः । दत्ते पुण्येऽथ सा राज्ञी गर्भमाधत्त शोभनम्
प्राप्तो प्रसवकाले सा सुषुवे पुत्रमूर्जितम् । श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे
द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् । हेम रौप्य ताम्र क्षौमैः सूत्रैः कौशेयपद्मजैः
कुशैः काशैश्च कार्पासैर्ब्राह्मण्या कर्तितैः शुभैः । स्नात्वा त्रिगुणितं सूत्रं त्रिगुणीकृत्य शोधयेत्
गोदोहांतरिते काले पूर्वेद्युरधिवासनम् । ब्राह्मणेभ्यो नमस्कृत्य गुरुपादौ प्रणम्य च
गीतमंगलनिर्घोषः कुर्याज्जागरणं ततः । ब्राह्मणाः क्षत्रिया वैश्या भिल्लाः शूद्रास्तथैव च
स्वधर्मावस्थिताः सर्वे भक्त्या कुर्युः पवित्रकम् । ततः पवित्रं गुरवे दद्याद्वै विधिपूर्वकम्