तत्फलं समवाप्नोति तुलसीदलपूजनात् । रत्न मौक्तिक वैडूर्य प्रवालादिभिरर्चितः
न तुष्यति तथा विष्णुस्तुलसीदलतो यथा । तुलसीमंजरीभिश्च पूजितो येन केशवः
या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी। रोगाणामभिवंदितानि रसिनी सिक्तांतकत्रासिनी । प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता। न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः
दीपं ददाति यो मर्त्यो दिवारात्रं हरेर्दिने । तस्य पुण्यस्य संख्यातुं चित्रगुप्तो न वेत्त्यलम्
कृष्णाग्रे दीपको यस्य ज्वलत्येकादशीदिने । पितरस्तस्य तृप्यंति अमृतेन दिवि स्थिताः
घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः । प्रयाति सूर्यलोकं च दीपकोटिशतार्चितः
अयं तवाग्रे कथितः कामिकामहिमा मया । अतो नरैः प्रकर्त्तव्या सर्वपातकहारिणी
ब्रह्महत्यापहरणी भ्रूणहत्याविनाशिनी । वैष्णवस्थानदात्री च महापुण्यफलप्रदा
श्रुत्वा माहात्म्यमेतस्या नरः श्रद्धासमन्वितः । विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रावणकृष्णैकादशीनाम चतुष्पंचाशत्तमोऽध्यायः
युधिष्ठिर उवाच। श्रावणस्य सिते पक्षे किं नामैकादशीभवेत् । कथयस्व प्रसादेन ममाग्रे मधुसूदन
श्रीकृष्ण उवाच- शृणुष्वावहितो राजन्कथां पापहरां पराम् । यस्याः श्रवणमात्रेण वाजपेयफलं भवेत्
द्वापरस्य युगस्यादौ पुरा माहिष्मती पुरे । राजा महीजिदाख्यातो राज्यं पालयति स्वकम्
पुत्रहीनस्य तस्यैव न तद्राज्यं सुखप्रदम् । अपुत्रस्य सुखं नास्ति इहलोके परत्र च
चिंतयास्य सुतस्यैवं कालो बहुतरो गतः । न प्राप्तश्च सुतो राज्ञा सर्वसौख्यप्रदो नृणाम्
दृष्ट्वात्मानं प्रवयसं राजा चिंतापरोऽभवत् । तदागतः प्रजामध्ये इदं वचनमब्रवीत्
इहजन्मनि भो लोका न मया पातकं कृतम् । अन्यायोपार्जितं वित्तं क्षिप्तं कोशे मया न हि
ब्रह्मस्वं देवद्रविणं न गृहीतं मया क्वचित् । न्यासापहारो न कृतः परस्य बहुपापदः । पुत्रवत्पालितो लोको धर्मेण विजिता मही
दुष्टेषु पातितो दंडो बंधुपुत्रोपमेष्वपि । शिष्टास्तु पूजिता नित्यं न द्वेष्याश्च मया जनाः
इत्येवं ब्रुवतो मार्गं धर्मयुक्तं द्विजोत्तमाः । कस्मान्मम गृहे पुत्रो न जातस्तद्विमृश्यताम्
इति वाक्यं द्विजाः श्रुत्वा सप्रजाः सपुरोहिताः । मंत्रयित्वा नृपहितं जग्मुस्ते गहनं वनम्
इतस्ततश्च पश्यंत आश्रमानृषिसेवितान् । नृपतेर्हितमिच्छंतो ददृशुर्मुनिसत्तमम्
तप्यमानं तपो घोरं निरालंबं निरामयम् । निराहारं जितात्मानं जितक्रोधं सनातनम्
लोमशं धर्मतत्वज्ञं सर्वशास्त्रविशारदम् । दीर्घायुषं महात्मानं सकेशं ब्रह्मसंमितम्
कल्पेकल्पे गते तस्य एकं लोम विशीर्यते । अतो लोमशनामायं त्रिकालज्ञो महामुनिः
तं दृष्ट्वा हर्षिताः सर्वे आजग्मुस्तस्य सन्निधिम् । यथान्यायं यथार्हं ते नमश्चक्रुर्यथोदितम्
विनयावनताः सर्वे ऊचुस्ते च परस्परम् । अस्मद्भाग्यवशादेव प्राप्तोऽयं मुनिसत्तमः । तास्तथा स प्रजा वीक्ष्य उवाच ऋषिसत्तमः
लोमश उवाच- किमर्थमिह संप्राप्तः कथयध्वं सकारणम् । दर्शनाद्धृष्टमनसः स्तुवंतश्चैव मां किमु
असंशयं करिष्यामि भवतां यद्धितं भवेत् । परोपकृतये जन्म मादृशानां न संशयः
जना ऊचुः - श्रूयतामभिधास्यामो वयं स्वागमकारणम् । संशयच्छेदनार्थाय तव सान्निध्यमागताः