युधिष्ठिर उवाच- श्रावणस्य सिते पक्षे किंनामैकादशीभवेत् । तन्नः कथय गोविंद वासुदेव नमोऽस्तु ते
श्रीकृष्ण उवाच- शृणु राजन्प्रवक्ष्यामि आख्यानं पापनाशनम् । यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छते नारदाय वै
नारद उवाच- भगवन्श्रोतुमिच्छामि त्वत्तोऽहं कमलासन । श्रावणस्यासिते पक्षे किं नामैकादशी भवेत्
को देवः को विधिस्तस्याः किं पुण्यं कथय प्रभो । इति तस्य वचः श्रुत्वा ब्रह्मा वचनमब्रवीत्
ब्रह्मोवाच- शृणु नारद ते वच्मि लोकानां हितकाम्यया । श्रावणैकादशी कृष्णा कामिका नाम नामतः
अस्याः श्रवणमात्रेण वाजपेयफलं लभेत् । अस्यां यजति देवेशं शंखचक्रगदाधरम्
श्रीधराख्यं हरिं विष्णुं माधवं मधुसूदनम् । पूजयेद्ध्यायते यो वै तस्य पुण्यंफलं शृणु
न गंगायां न काश्यां च नैमिषे न च पुष्करे । तत्फलं समवाप्नोति यत्फलं कृष्णपूजनात्
गोदावर्यां गुरौ सिंहे व्यतीपाते च दंडके । यत्फलं समवाप्नोति तत्फलं कृष्णपूजनात्
ससागरवनोपेतां यो ददाति वसुंधराम् । कामिकाव्रतकारी च ह्युभौ समफलौ स्मृतौ
प्रसूयमानां यो धेनुं दद्यात्सोपस्करां नरः । तत्फलं समवाप्नोति कामिकाव्रतकारकः
श्रावणे श्रीधरं देवं पूजयेद्यो नरोत्तमः । तेनैव पूजिता देवा गंधर्वोरगपन्नगाः
तस्मात्सर्वप्रयत्नेन कामिकादिवसे हरिः । पूजनीयो यथाशक्ति मानुषैः पापभीरुभिः
ये संसारार्णवे मग्नाः पापपंकसमाकुले । तेषामुद्धरणार्थाय कामिकाव्रतमुत्तमम्
नातः परतरा काचित्पवित्रा पापहारिणी । एवं नारद जानीहि स्वयमाह परो हरिः
अध्यात्मविद्या निरतैर्यत्फलं प्राप्यते नरैः । ततो बहुतरं विद्धि कामिकाव्रतसेविनाम्
रात्रौ जागरणं कृत्वा कामिकाव्रतकृन्नरः । न पश्यति यमं रौद्रं नैव गच्छति दुर्गतिम्
न पश्यति कुयोनिं च कामिकाव्रतसेवनात् । कामिकाया व्रते चीर्णे कैवल्यं योगिनो गताः
तस्मात्सर्वप्रयत्नेन कर्तव्या नियतात्मभिः । तुलसीप्रभवैः पत्रैः यो नरः पूजयेद्धरिम्
न लिप्यते स पापेन पद्मपत्रमिवांभसा । सुवर्णभारमेकं तु रजतं च चतुर्गुणम्
तत्फलं समवाप्नोति तुलसीदलपूजनात् । रत्न मौक्तिक वैडूर्य प्रवालादिभिरर्चितः
न तुष्यति तथा विष्णुस्तुलसीदलतो यथा । तुलसीमंजरीभिश्च पूजितो येन केशवः
या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी। रोगाणामभिवंदितानि रसिनी सिक्तांतकत्रासिनी । प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता। न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः
दीपं ददाति यो मर्त्यो दिवारात्रं हरेर्दिने । तस्य पुण्यस्य संख्यातुं चित्रगुप्तो न वेत्त्यलम्
कृष्णाग्रे दीपको यस्य ज्वलत्येकादशीदिने । पितरस्तस्य तृप्यंति अमृतेन दिवि स्थिताः
घृतेन दीपं प्रज्वाल्य तिलतैलेन वा पुनः । प्रयाति सूर्यलोकं च दीपकोटिशतार्चितः
अयं तवाग्रे कथितः कामिकामहिमा मया । अतो नरैः प्रकर्त्तव्या सर्वपातकहारिणी
ब्रह्महत्यापहरणी भ्रूणहत्याविनाशिनी । वैष्णवस्थानदात्री च महापुण्यफलप्रदा
श्रुत्वा माहात्म्यमेतस्या नरः श्रद्धासमन्वितः । विष्णुलोकमवाप्नोति सर्वपापैः प्रमुच्यते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे श्रावणकृष्णैकादशीनाम चतुष्पंचाशत्तमोऽध्यायः