तस्यां च पूजयेद्देवं शंखचक्रगदाधरम् । रात्रौ जागरणं कृत्वा भक्त्या चैव विशेषतः
नास्याः पुण्यस्य संख्यानं कर्तुं शक्तश्चतुर्मुखः । एवं यः कुरुते राजन्नेकादश्या व्रतोत्तमम्
सर्वपापहरं चैव भुक्तिमुक्तिप्रदायकम् । स च लोके मम सदा श्वपचोऽपि प्रियंकरः
दीपदानेन पालाशपत्रे भुक्त्या व्रतेन च । चातुर्मास्यं नयंतीह ते नरा मम वल्लभाः
चातुर्मास्ये हरौ सुप्ते भूमिशायी भवेन्नरः । श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा
दुग्धमाश्वयुजि त्याज्यं कार्तिके द्विदलं त्यजेत् । अथवा ब्रह्मचर्यस्थः स याति परमां गतिम्
एकादश्या व्रतेनैव पुमान्पापैर्विमुच्यते । कर्तव्या सर्वदा राजन्विस्मर्तव्या न कर्हिचित्
शयनी बोधिनी मध्ये या कृष्णैकादशीभवेत् । सैवोपोष्या गृहस्थस्य नान्या कृष्णा कदाचन
शृणुयाच्चैव यो राजन्कथां पापहरां पराम् । अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमामहेश्वरसंवादे देवशयन्येकादशीनाम त्रिपंचाशत्तमोऽध्यायः
युधिष्ठिर उवाच- श्रावणस्य सिते पक्षे किंनामैकादशीभवेत् । तन्नः कथय गोविंद वासुदेव नमोऽस्तु ते
श्रीकृष्ण उवाच- शृणु राजन्प्रवक्ष्यामि आख्यानं पापनाशनम् । यत्प्रोक्तं ब्रह्मणा पूर्वं पृच्छते नारदाय वै
नारद उवाच- भगवन्श्रोतुमिच्छामि त्वत्तोऽहं कमलासन । श्रावणस्यासिते पक्षे किं नामैकादशी भवेत्
को देवः को विधिस्तस्याः किं पुण्यं कथय प्रभो । इति तस्य वचः श्रुत्वा ब्रह्मा वचनमब्रवीत्
ब्रह्मोवाच- शृणु नारद ते वच्मि लोकानां हितकाम्यया । श्रावणैकादशी कृष्णा कामिका नाम नामतः
अस्याः श्रवणमात्रेण वाजपेयफलं लभेत् । अस्यां यजति देवेशं शंखचक्रगदाधरम्
श्रीधराख्यं हरिं विष्णुं माधवं मधुसूदनम् । पूजयेद्ध्यायते यो वै तस्य पुण्यंफलं शृणु
न गंगायां न काश्यां च नैमिषे न च पुष्करे । तत्फलं समवाप्नोति यत्फलं कृष्णपूजनात्
गोदावर्यां गुरौ सिंहे व्यतीपाते च दंडके । यत्फलं समवाप्नोति तत्फलं कृष्णपूजनात्
ससागरवनोपेतां यो ददाति वसुंधराम् । कामिकाव्रतकारी च ह्युभौ समफलौ स्मृतौ
प्रसूयमानां यो धेनुं दद्यात्सोपस्करां नरः । तत्फलं समवाप्नोति कामिकाव्रतकारकः
श्रावणे श्रीधरं देवं पूजयेद्यो नरोत्तमः । तेनैव पूजिता देवा गंधर्वोरगपन्नगाः
तस्मात्सर्वप्रयत्नेन कामिकादिवसे हरिः । पूजनीयो यथाशक्ति मानुषैः पापभीरुभिः
ये संसारार्णवे मग्नाः पापपंकसमाकुले । तेषामुद्धरणार्थाय कामिकाव्रतमुत्तमम्
नातः परतरा काचित्पवित्रा पापहारिणी । एवं नारद जानीहि स्वयमाह परो हरिः
अध्यात्मविद्या निरतैर्यत्फलं प्राप्यते नरैः । ततो बहुतरं विद्धि कामिकाव्रतसेविनाम्
रात्रौ जागरणं कृत्वा कामिकाव्रतकृन्नरः । न पश्यति यमं रौद्रं नैव गच्छति दुर्गतिम्
न पश्यति कुयोनिं च कामिकाव्रतसेवनात् । कामिकाया व्रते चीर्णे कैवल्यं योगिनो गताः
तस्मात्सर्वप्रयत्नेन कर्तव्या नियतात्मभिः । तुलसीप्रभवैः पत्रैः यो नरः पूजयेद्धरिम्
न लिप्यते स पापेन पद्मपत्रमिवांभसा । सुवर्णभारमेकं तु रजतं च चतुर्गुणम्