महापापप्रशमनं महापुण्यफलप्रदम् । पठनाच्छ्रवणान्मर्त्यः सर्वपापैः प्रमुच्यते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे आषाढकृष्णयोगिन्येकादशीमाहात्म्यंनाम द्विपंचाशत्तमोऽध्यायः
युधिष्ठिर उवाच- आषाढस्य सिते पक्षे का च एकादशी भवेत् । किं नाम को विधिस्तस्या एतद्विस्तरतो वद
श्रीकृष्ण उवाच- कथयामि महापुण्यां स्वर्गमोक्षप्रदायिनीम् । शयनीं नामनामेति सर्वपापहरां पराम्
यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् । सत्यं सत्यं मया प्रोक्तं नातः परतरं नृणाम्
पापिनां पापनाशाय सृष्टा धात्रा महोत्तमा । अतः परा न राजेंद्र वर्त्तते मोक्षदायिनी
एतस्मात्कारणाद्राजन्श्रूयतां गतिरुत्तमा । भवेन्नराणां श्रोतॄणां कथायाः श्रवणादपि
ते सदा वैष्णवा राजन्मम भक्तिपरायणाः । आषाढे वामनश्चैव पूज्यते परमेश्वरः
वामनः पूजितो येन कमलैः कमलेक्षणः । आषाढस्य सिते पक्षे कामिकाया दिने तथा
तेनार्चितं जगत्सर्वं त्रयो देवाः सनातनाः । कृता चैकादशी येन हरिवासरमुत्तमम्
युधिष्ठिर उवाच- संशयोऽस्ति महान्मेऽत्र श्रूयतां पुरुषोत्तम । कथं सुप्तोऽसि देवेश कथं च बलिमाश्रितः
कथं च भूमौ संवेशः किं कुर्वंति जनाः परे । एतद्वद महाप्राज्ञ संशयोऽस्ति महान्मम
श्रीकृष्ण उवाच - श्रूयतां राजशार्दूल कथां पापहरां पराम् । यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत्
बलिनामा पूर्वमासीद्दैत्यस्त्रेतायुगे नृप । पूजयंश्चैव मां नित्यं मद्भक्तो मत्परायणः
यज्ञैस्तु विधिवद्दैत्यो यजते मां सनातनम् । भक्त्या च परया राजन्यज्ञकृद्व्रतकृत्तथा
परं विचार्य बहुधा मघोना चैव सूक्तिभिः । गुरुणा दैवतैः सार्द्धं बहुधा पूजितोऽप्यहम्
ततो वामनरूपेण अवतारे च पंचमे । अत्युग्ररूपेण तदा सर्वब्रह्मांडरूपिणा
वाक्छलेन जिता दैत्याः सत्यमाश्रित्य संस्थितः । शुक्रस्तं वारयामास यन्नारायण इत्ययम्
याचिता वसुधा राजन्सार्द्धत्रयपदी मया । संकल्पोदकमात्रे तु करे तेनैव चार्पिते
रूपमीदृग्विधं राजंस्तदा शृणु मया कृतम् । भूर्लोके चरणौ न्यस्य भुवर्लोके तु जानुनी
स्वर्लोके च कटिं न्यस्य महर्लोके तथोदरम् । जनलोके च हृदयं तपोलोके तु कंठकम्
सत्यलोके मुखं स्थाप्य मस्तकं च तदूर्द्ध्वकम् । चंद्रसूर्यग्रहाश्चैव नक्षत्राणि तथैव च
देवाः सेंद्राश्च नागाश्च यक्षगंधर्वकिन्नराः । स्तुवंतो वेदसंभूतैः सूक्तैश्च विविधैस्तथा
करे गृहीत्वा च बलिं त्रिपदैः पूरिता मही । अर्द्धं च तस्य पृष्ठे च पदं न्यस्तं मया तदा
गतो रसातलं राजन्दानवो मम पूजकः । क्षिप्तोऽधो दानवश्चैव किमकुर्वं ततः परम्
विनयेनानतोसौ वै सुप्रसन्नो जनार्दनः । आषाढशुक्लपक्षे तु कामिका हरिवासरः
तस्यामेका च मूर्तिर्मे बलिमाश्रित्य तिष्ठति । द्वितीया शेषपृष्ठे वै क्षीरसागरमध्यतः
स्वपित्येव महाराज यावदागामि कार्तिकी । तावद्भवेत्सुधर्मात्मा सर्वधर्मोत्तमोत्तमः
व्रतं च कुरुते मर्त्यः स याति परमां गतिम् । एतस्मात्कारणाद्राजन्कर्त्तव्या च प्रयत्नतः
नातः परतरा काचित्पवित्रा पापनाशिनी । यस्यां स्वपिति देवेशः शंखचक्रगदाधरः