संसारार्णवमग्नानां पोतभूता सनातनी । जगत्त्रये सारभूता योगिनी व्रतकारिणाम्
कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम् । अलकायां राजराजः शिवभक्तिपरायणः
तस्यासीत्पुष्पबटुको हेममालीति नामतः । तस्य पत्नी सुरूपा च विशालाक्षीति नामतः
स तस्यां चासक्तमना कामपाशवशं गतः । मानसात्पुष्पनिचयमानीय स्वगृहे स्थितः
पत्नीप्रेमरसासक्तो न कुबेरालयं गतः । कुबेरो देवसदने करोति शिवपूजनम्
मध्याह्नसमये राजन्पुष्पागमसमीक्षकः । हेममाली स्वभवने रमते कांतया सह
यक्षराट्प्रत्युवाचाथ कालातिक्रमकोपितः । कस्मान्नायाति भो यक्षा हेममाली दुरात्मवान् । निश्चयः क्रियतामस्य इत्युवाच पुनः पुनः
यक्षा ऊचुः - वनिताकामुको गेहे रमते स्वेच्छया नृप । तेषां वाक्यं समाकर्ण्य कुबेरः कोपपूरितः
आह्वयामास तं तूर्णं बटुकं हेममालिनम् । ज्ञात्वा कालात्ययं सोऽपि भयव्याकुललोचनः
अस्नात एव आगत्य कुबेरस्याग्रतः स्थितः । तं दृष्ट्वा धनदः क्रुद्धः क्रोधसंरक्तलोचनः
प्रत्युवाच रुषाविष्टः कोपप्रस्फुरिताधरः । धनद उवाच- आः पाप दुष्ट दुर्वृत्त कृतवान्देवहेलनम्
अष्टादशकुष्ठवृतो वियुक्तः कांतया तया । अस्मात्स्थानादपध्वस्तो गच्छ स्वप्नमथाधम
इत्युक्ते वचने तस्य तस्मात्स्थानात्पपात सः । महादुःखाभिभूतश्च कुष्ठैः पीडितविग्रहः
न सुखं दिवसे तस्य न निद्रां लभते निशि । छायायां पीडिततनुर्निदाघेऽत्यंतपीडितः
शिवपूजाप्रभावेन स्मृतिस्तस्य न लुप्यते । पातकेनाभिभूतोऽपि पूर्वं कर्म स्मरत्यसौ
भ्रममाणस्ततो गच्छन्हिमाद्रिं पर्वतोत्तमम् । तत्रापश्यन्मुनिवरं मार्कंडेयं तपोनिधिम्
यस्यायुर्विद्यते राजन्ब्रह्मणो वयसा समम् । ववंदे चरणौ तस्य दूरतः पापकर्मकृत्
मार्कंडेयो मुनिवरो दृष्ट्वा तं कंपितं तथा । परोपकरणार्थाय समाहूयेदमब्रवीत्
कस्मात्कुष्ठाभिभूतस्त्वं कुतो निंद्यतरो ह्यसि । इत्युक्तः स प्रत्युवाच मार्कंडेयं महामुनिम्
हेममाल्युवाच- राजराजस्यानुचरो हेममालीति नामतः । मानसात्पद्मनिचयमानीय प्रत्यहं मुने
शिवपूजनवेलायां कुबेराय समर्पये । एकस्मिन्दिवसे चैव कालश्चाविदितो मया
पत्नीसौख्यप्रसक्तेन शोकव्याकुलचेतसा । ततः क्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने
कुष्ठाभिभूतः संजातो वियुक्तः कांतया तया । अधुना तव सान्निध्यं प्राप्तोऽस्मि शुभकर्मणा
सतां स्वभावतश्चित्तं परोपकरणे क्षमम् । इति ज्ञात्वा मुनिश्रेष्ठ मां प्रशाधि कृतागसम्
मार्कंडेय उवाच- त्वया सत्यमिह प्रोक्तं नासत्यं भाषितं यतः । अतो व्रतोपदेशं ते कथयामि शुभप्रदम्
आषाढे कृष्णपक्षे तु योगिनीव्रतमाचर । अस्य व्रतस्य पुण्येन कुष्ठं यास्यति वै ध्रुवम्
इति वाक्यमृषेः श्रुत्वा दंडवत्पतितो भुवि । उत्थापितः स मुनिना बभूवातीव हर्षितः
मार्कंडेयोपदेशेन व्रतं तेन कृतं यथा । अष्टादशेव कुष्ठानि गतानि तस्य सर्वशः
मुनेर्वाचा ततः सम्यग्व्रते चीर्णेऽभवत्सुखी । ईदृग्विधं नृपश्रेष्ठ कथितं योगिनीव्रतम्
अष्टाशीतिसहस्राणि द्विजान्भोजयते तु यः । तत्समं फलमाप्नोति योगिनीव्रतकृन्नरः