प्रत्यक्षा वा नृपश्रेष्ठ घृतधेनुरथापि वा । दक्षिणाभिः सुपुष्टाभिर्मिष्टान्नैश्च पृथग्विधैः
तोषणीयाः प्रयत्नेन द्विजा धर्मभृतां वर । तुष्टा भवंति वै विप्रास्तैस्तुष्टैर्मोक्षदो हरिः
आत्मद्रोहः कृतस्तैर्हि यैरेषा न ह्युपोषिता । पापात्मानो दुराचारा मुष्टास्ते नात्र संशयः 6.51.
कुलानां शतमागामि अतीतानां तथा शतम् । आत्मना सह तैर्नीतं वासुदेवस्य मंदिरम्
शांतैर्दांतैर्दानपरैरर्चयद्भिस्तथा हरिम् । कुर्वद्भिर्जागरं रात्रौ यैरेषा समुपोषिता
अन्नं वस्त्रं तथा गावो जलं शय्यासनं शुभम् । कमंडलुं तथा छत्रं दातव्यं निर्जला दिने
उपानहौ यो ददाति पात्रभूते द्विजोत्तमे । स सौवर्णेन यानेन स्वर्गलोके महीयते
यश्चेमां शृणुयाद्भक्त्या यश्चापि परिकीर्तयेत् । उभौ तौ स्वर्गमाप्नोति नात्र कार्या विचारणा
यत्फलं संनिहत्यायां राहुग्रस्ते दिवाकरे । कृत्वा श्राद्धं लभेन्मर्त्यस्तदस्याः श्रवणादपि
नियमं च प्रकर्त्तव्यं दंतधावनपूर्वकम् । एकादश्यां निराहारो वर्जयिष्यामि वै जलम्
केशवप्रीणनार्थाय अन्यदाचमनादृते । द्वादश्यां देवदेवेशः पूजनीयस्त्रिविक्रमः
गंधैर्धूपैस्तथा पुष्पैर्वासोभिः प्रियदर्शनैः । पूजयित्वा विधानेन मंत्रमेतमुदीरयेत्
देवदेव हृषीकेश संसारार्णवतारक । उदकुंभप्रदानेन नय मां परमां गतिम्
ज्येष्ठे मासि तु वै भीम या शुक्लैकादशी शुभा । निर्जला समुपोष्यात्र जलकुंभान्सशर्करान्
प्रदाय विप्रमुख्येभ्यो मोदते विष्णुसन्निधौ । ततः कुंभाः प्रदातव्या ब्राह्मणानां च भक्तितः
भोजयित्वा ततो विप्रान्स्वयं भुंजीत तत्परः । एवं यः कुरुते पूर्णां द्वादशीं पापनाशिनीम्
सर्वपापविनिर्मुक्तो पदं गच्छत्यनामयम् । ततः प्रभृति भीमेन कृता ह्येकादशी शुभा । पांडवद्वादशी नाम्ना लोके ख्याता बभूव ह
युधिष्ठिरउवाच- आषाढकृष्णपक्षे तु किं वै एकादशी भवेत् । कथयस्व प्रसादेन वासुदेव ममाग्रतः
श्रीकृष्ण उवाच- व्रतानामुत्तमं राजन्कथयामि तवाग्रतः । सर्वपापक्षयकरं सर्वमुक्तिप्रदायकम्
आषाढस्यासिते पक्षे योगिनी नाम नामतः । एकादशी नृपश्रेष्ठ महापातकनाशिनी
संसारार्णवमग्नानां पोतभूता सनातनी । जगत्त्रये सारभूता योगिनी व्रतकारिणाम्
कथयामि तवाग्रेऽहं कथां पौराणिकीं शुभाम् । अलकायां राजराजः शिवभक्तिपरायणः
तस्यासीत्पुष्पबटुको हेममालीति नामतः । तस्य पत्नी सुरूपा च विशालाक्षीति नामतः
स तस्यां चासक्तमना कामपाशवशं गतः । मानसात्पुष्पनिचयमानीय स्वगृहे स्थितः
पत्नीप्रेमरसासक्तो न कुबेरालयं गतः । कुबेरो देवसदने करोति शिवपूजनम्
मध्याह्नसमये राजन्पुष्पागमसमीक्षकः । हेममाली स्वभवने रमते कांतया सह
यक्षराट्प्रत्युवाचाथ कालातिक्रमकोपितः । कस्मान्नायाति भो यक्षा हेममाली दुरात्मवान् । निश्चयः क्रियतामस्य इत्युवाच पुनः पुनः
यक्षा ऊचुः - वनिताकामुको गेहे रमते स्वेच्छया नृप । तेषां वाक्यं समाकर्ण्य कुबेरः कोपपूरितः
आह्वयामास तं तूर्णं बटुकं हेममालिनम् । ज्ञात्वा कालात्ययं सोऽपि भयव्याकुललोचनः
अस्नात एव आगत्य कुबेरस्याग्रतः स्थितः । तं दृष्ट्वा धनदः क्रुद्धः क्रोधसंरक्तलोचनः