दृष्ट्वातिथिं तु शीतार्तं ववंदे शिरसा ततः । ददौ तृणासनं भक्त्या तस्मै पाद्यादिकं ततः
ततो मधुरया वाचा तेनैवातिथिना सह । तस्थौ स्वस्थेन मनसा प्रज्ञालापं प्रकुर्वता
गृहिण्या सह गोपेन स्वामिसेवा सुदक्षया । ततः कूष्माण्डकं नव्यं पक्वमत्यंत यत्नतः
संप्राप्य हर्षिता साध्वी ददौ भागं विधाय सा । अथासौ दुर्बलो गोपो दिनविंशमुपोषणात्
आतिथेयो महाभागं ददौ चातिथये मुदा । ततस्तद्गृहिणी साध्वी स्वामिभक्तिपरायणा
ददौ सा पतितं भागं तस्मै चातिथये मुदा । अथातिथेस्तयोस्तत्र दंपत्योः सुमहात्मनोः
अभूद्भागद्वयं भुक्त्वा सुप्रीतो द्विजसत्तम । विष्णुवत्पूजितस्ताभ्यां सोऽतिथिर्दृढभक्तितः
विश्रामं रात्रौ तत्रैव प्रातः स्नात्वा चिरं ययौ । गतैवमुपवासेन दिनानामेकविंशतिः
दंपती तौ महात्मानौ पंचतां ययतुस्ततः । तेन पुण्यप्रभावेण दंपती तौ महाशयौ
प्रापतुर्विष्णुसायुज्यं दुर्ल्लभं योगिनामपि । तयोः पुण्यप्रभावेण विहितातिथिपूजया
तस्मिन्राज्ये तु दुर्भिक्षं विनष्टमभवत्ततः । अत्यंतसुखिनोलोकाः शोकव्याधिविवर्जिताः
धनधान्यादिसम्पन्ना बभूवुर्धर्मतत्पराः । विनष्टा दस्यवस्तत्र नृपोऽभूल्लोकपालकः
निजाचाररतालोका जलदाः कामवर्षिणः । पूर्वजाः कोटिपुरुषास्तथैवापरजास्तयोः
तेनैव कर्मणा मुक्तिं जग्मुः पापविवर्जिताः । निर्दोषा धनसंपन्नाः सर्वलोकैकपूजिताः
शोकव्याधिविहीना च ववृधे संततिस्तयोः । लोमश उवाच- आगंतुपूजामाहात्म्यं सेतिहासं मयोदितम्
युवयोः प्रीतयोर्विप्रौ किमन्यच्छ्रोतुमिच्छथ । व्यास उवाच- इति ब्रुवति वै तस्मिँल्लोमशे तपसां धने
कालग्रस्तः कृष्णआखुस्तत्रोत्तस्थौ बिलान्निजात् । तमुत्थितं बिलात्कृष्णमूषकं क्रोधविह्वलः
पवित्रस्तत्र चोत्तस्थौ वदन्निति मुहुर्मुहुः । अयं पापाशयो दुष्टो मूषको निशि चाश्रमम्
खनते तीक्ष्णदंतौघैर्गृहद्रव्यं च कृंतति । सर्वेषामेव वर्णानां कृपा श्रेष्ठा प्रकीर्तिता
सा च सर्वेषु कर्तव्या न च दुष्टेषु जंतुषु । इत्युक्त्वासौ मूषिकं तं द्विजश्रेष्ठ कृतैनसम्
नाराचेनातितीक्ष्णेन प्राप्तकालं जघान ह । स्रवच्छोणितधाराभिः प्लाविताङ्गः स मूषकः
पपात भूमौ विप्रर्षे व्यथया हतचेतनः । आखौ निपतिते तस्मिन्दयालुर्द्विजसत्तमः
हाहाकारं ततः कृत्वा समुत्तस्थौ जवेन सः । निजकर्णात्समानीय तुलसीपत्रमुत्तमम्
तस्याखोर्वदने शीर्षे कर्णयोश्च प्रदत्तवान् । मातस्तु तुलसीदेवि गोविन्दह्लादकारिणि
अस्याखोः कृतपापस्य कुरु त्वं गतिमुत्तमाम् । इत्युक्त्वा सद्विजश्रेष्ठ सर्वलोकोपकारकः
हरेनारायणानन्त इत्युच्चैरकरोद्ध्वनिम् । तुलसीपत्रसंस्पर्शान्मूषको वीतकल्मषः
श्रवणाद्धरिनाम्नश्च मुक्तोऽभूद्भवबंधनात् । ततो दूता महाविष्णोः सर्वलक्षणसंयुताः
आजग्मुः सुरथैः शीघ्रं नेतुं तं गतकल्मषम् । समारुह्य रथं दिव्यं विष्णुदूतगणैर्वृताः
जगाम परमं स्थानं मूषको द्विजसत्तम । युगकोटिसहस्राणि स्थित्वा नारायणाश्रमे
ज्ञानमासाद्य तत्रैव मोक्षमाखुर्जगाम सः । व्यास उवाच- माहात्म्यं तुलसीदेव्याः कथितं ते द्विजोत्तम