नैकं शक्नोम्यहं कर्तुमुपवासं महामुने । येनैव प्राप्यते स्वर्गस्तत्कर्त्तास्मि यथातथम् । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्
व्यास उवाच- वृषस्थे मिथुनस्थे वा यदा चैकादशी भवेत् । ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जिता
गंडूषाचमनं वारि वर्जयित्वोदकं बुधः । उपभुंजीत नैवेह व्रतभंगोऽन्यथा भवेत्
उदयादुदयं यावद्वर्जयित्वोदकं नरः । श्रूयतां समवाप्नोति द्वादशद्वादशी फलम्
ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत् । जलं सुवर्णं दत्त्वा च द्विजातिभ्यो यथाविधि
भुंजीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी । एवं कृते च यत्पुण्यं भीमसेन शृणुष्व तत्
संवत्सरे तु याश्चैव एकादश्यो भवंति हि । तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः
इति मां केशवः प्राह शंखचक्रगदाधरः । सर्वान्परित्यज्य पुमान्मामेकं शरणं व्रजेत्
एकादश्यां निराहारस्ततः पापात्प्रमुच्यते । द्रव्यशुद्धिः कलौ नास्ति संस्कारः स्मार्त्त एव च
वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे । किं नु ते बहुनोक्तेन वायुपुत्र पुनः पुनः
एकादश्यां न भुंजीत पक्षयोरुभयोरपि । एकादश्यां सिते पक्षे ज्येष्ठेमास्युदकं विना
पुण्यं फलमवाप्नोति तच्छृणुष्व वृकोदर । संवत्सरे तु या प्रोक्ताः शुक्लः कृष्णा वृकोदर
उपोषिता हि सर्वाः स्युरेकादश्यो न संशयः । धनधान्यप्रदा पुण्या पुत्रारोग्यशुभप्रदा
उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते । यमदूता महाकायाः करालाः कृष्णरूपिणः
दंडपाशधरा रौद्रा नोपसर्पंति तं नरम् । पीतांबरधरा सौम्याश्चक्रहस्ता मनोजवाः
अंतकालेन यंत्येते वैष्णवान्वैष्णवीपुरीम् । तस्मात्सर्वप्रयत्नेन उपोष्योदकवर्जिता
जलधेनुं तदा दत्त्वा सर्वपापैः प्रमुच्यते । ततस्त्वमस्यां कौंतेय सोपवासोऽर्चनं हरेः
कुरु सर्वप्रयत्नेन सर्वपापप्रशांतये । स्वप्नेन मेऽपराधोस्ति दंतरागतयापि वा
भोक्ष्येपरेऽह्नि देवेश ह्यशनं वासराद्धरेः । इत्युच्चार्य ततो मंत्र उपवासपरो भवेत्
सर्वपापविनाशाय श्रद्धा दम समन्वितः । मेरुमंदरमात्राघं स्त्रिया पुंसा च यत्कृतम्
सर्वं तद्भस्मतां याति एकादश्याः प्रभावतः । न शक्नुवंति ये दातुं जलधेनुं नराधिप
सकांचनः प्रदातव्यो घटको वस्त्रसंयुतः । तोयस्य नियमं योऽस्या कुरुते वै स पुण्यभाक्
फलं कोटिसुवर्णस्य यामेयामे श्रुतं फलम् । स्नानं दानं जपं होमं यदस्यां कुरुते नरः
तत्सर्वं चाक्षयं प्राप्तमेतत्कृष्णप्रभाषितम् । किं वापरेण धर्मेण निर्जलैकादशीं विना
उपोष्य सम्यग्विधिवद्वैष्णवं पदमाप्नुयात् । सुवर्णमन्नं वासो वा यदस्यां संप्रदीयते
तदस्य कुरुशार्दूल सर्वं चाप्यक्षयं भवेत् । एकादश्यां दिने योऽन्नं भुंक्ते पापं भुनक्ति सः
इहलोके स चांडालो मृतः प्राप्नोति दुर्गतिम् । ये च दास्यंति दानानि द्वादश्यां समुपोषिताः
ज्येष्ठमासे सिते पक्षे प्राप्स्यंति परमं पदम् । ब्रह्महा मद्यपः स्तेनो गुरुद्वेषी सदानृती
मुच्यंते पातकैः सर्वैर्निर्जलायैरुपोषिता । विशेषं शृणु कौंतेय निर्जलैकादशी दिने
यत्कर्त्तव्यं नरैः स्त्रीभिर्दानं श्रद्धासमन्वितैः । जलशायी च संपूज्यो देया धेनुस्तथाम्मयी