जायंते मरणायैव एकादश्या व्रतं विना । अपरां समुपोष्यैव पूजयित्वा त्रिविक्रमम्
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते । लोकानां च हितार्थाय तवाग्रे कथितं मया । पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे ज्येष्ठकृष्णापरैकादशीनाम पंचाशत्तमोऽध्यायः
युधिष्ठिर उवाच- अपरायाश्च माहात्म्यं श्रुतं सर्वं जनार्दन । ज्येष्ठस्य शुक्लपक्षे तु स्याद्या तां वद मानद
श्रीकृष्ण उवाच- एनां वक्ष्यति धर्मात्मा व्यासः सत्यवतीसुतः । सर्वशास्त्रार्थतत्त्वज्ञो वेदवेदांगपारगः
युधिष्ठिर उवाच- श्रुता मे मानवा धर्मा वासिष्ठाश्च श्रुता मया । द्वैपायन यथावत्त्वं वैष्णवान्वक्तुमर्हसि
श्रीवेदव्यास उवाच - श्रुतास्तु मानवा धर्मा वैदिकाश्च श्रुतास्त्वया । कलौ युगे न शक्यंते ते वै कर्तुं नराधिप
सुखोपायमल्पधनमल्पक्लेशं महाफलम् । पुराणानां च सर्वेषां सारभूतं महामते
एकादश्यां न भुंजीत पक्षयोरुभयोरपि । द्वादश्यां तु शुचिर्भूत्वा पुष्पैः संपूज्य केशवम्
अन्नं भुंजीत सत्कृत्य पश्चाद्विप्रपुरःसरम् । सूतकेऽपि न भोक्तव्यं नाशौचे च जनाधिप
यावज्जीवं व्रतमिदं कर्त्तव्यं पुरुषर्षभ । स्वर्गतिं प्राप्तुमिच्छद्भिरत्र नैवास्ति संशयः
आपपापा दुराचाराः पापिष्ठा धर्मवर्जिताः । एकादश्यां न भुंजाना न ते यांति यमांतिकम्
इति तद्वचनं श्रुत्वा कंपितोऽश्वत्थपत्रवत् । भीमसेनो महाबाहुर्नत्वोवाच गुरुं प्रति
भीमसेन उवाच- पितामह महाबुद्धे शृणु मे परमं वचः । युधिष्ठिरश्च कुंती च तथा द्रुपदनंदिनी
अर्जुनो नकुलश्चैव सहदेवस्तथैव च । एकादश्यां न भुंजंति कदाचिदपि सुव्रताः
ते मां ब्रुवंति वै नित्यं मा भुंक्ष्व त्वं वृकोदर । अहं तानब्रुवं तात बुभुक्षा दुःसहा मम
दानं दास्यामि विधिवत्पूजयिष्यामि केशवम् । भीमसेनवचः श्रुत्वा व्यासो वचनमब्रवीत्
व्यास उवाच- यदि स्वर्गमभीष्टं ते नरकं दुष्टमेव च । एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि
भीमसेन उवाच- पितामह महाबुद्धे कथयामि तवाग्रतः । एकभक्ते न शक्नोमि उपवासे कुतः प्रभो
वृकोऽपिनाम यो वह्निः स सदा जठरे मम । अतिवेलं यदाश्नामि तदा समुपशाम्यति
नैकं शक्नोम्यहं कर्तुमुपवासं महामुने । येनैव प्राप्यते स्वर्गस्तत्कर्त्तास्मि यथातथम् । तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्
व्यास उवाच- वृषस्थे मिथुनस्थे वा यदा चैकादशी भवेत् । ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जिता
गंडूषाचमनं वारि वर्जयित्वोदकं बुधः । उपभुंजीत नैवेह व्रतभंगोऽन्यथा भवेत्
उदयादुदयं यावद्वर्जयित्वोदकं नरः । श्रूयतां समवाप्नोति द्वादशद्वादशी फलम्
ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत् । जलं सुवर्णं दत्त्वा च द्विजातिभ्यो यथाविधि
भुंजीत कृतकृत्यस्तु ब्राह्मणैः सहितो वशी । एवं कृते च यत्पुण्यं भीमसेन शृणुष्व तत्
संवत्सरे तु याश्चैव एकादश्यो भवंति हि । तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः
इति मां केशवः प्राह शंखचक्रगदाधरः । सर्वान्परित्यज्य पुमान्मामेकं शरणं व्रजेत्
एकादश्यां निराहारस्ततः पापात्प्रमुच्यते । द्रव्यशुद्धिः कलौ नास्ति संस्कारः स्मार्त्त एव च
वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे । किं नु ते बहुनोक्तेन वायुपुत्र पुनः पुनः