दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम् । कौंडिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित्
माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम् । आससाद धृष्टबुद्धिः शोकभारेण पीडितः
तद्वस्त्रबिंदुस्पर्शेन गतपापो हताशुभः । कौंडिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृतांजलि
धृष्टबुद्धिरुवाच- भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि । येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद
कौंडिन्य उवाच- शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव । वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता
एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः । मेरुतुल्यानि पापानि क्षयं गच्छंति देहिनाम्
बहुजन्मार्जितान्येषा मोहिनी समुपोषिता । इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः
व्रतं चकार विधिवत्कौंडिन्यस्योपदेशतः । कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः
दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः । जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम्
इतीदृशं रामचंद्र उत्तमं मोहिनी व्रतम् । नातः परतरं किंचित्त्रैलोक्ये सचराचरे
यज्ञादितीर्थदानानि कलां नार्हंति षोडशीम् । पठनाच्छ्रवणाद्राजन्गोसहस्र फलं लभेत्
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां सहितायामुत्तरखंडे उमापतिनारदसंवादे वैशाखशुक्ले मोहन्येकादशीनाम एकोनपंचाशत्तमोऽध्यायः
युधिष्ठिर उवाच- ज्येष्ठस्य कृष्णपक्षे तु किं नामैकादशी भवेत् । श्रोतुमिच्छामि माहात्म्यं तद्वदस्व जनार्दन
श्रीकृष्ण उवाच- साधु पृष्टं त्वया राजन्लोकानां हितकाम्यया । बहुपुण्यप्रदा ह्येषा महापातकनाशिनी
अपरा नाम राजेंद्र अपरा पुत्रदायिनी । लोके प्रसिद्धितां याति अपरां यस्तु सेवते
ब्रह्महत्याभिभूतोऽपि गोत्रहा भ्रूणहा तथा । परापवादवादी च परस्त्री रसिकोऽपि च
अपरा सेवनाद्राजन्विपाप्मा भवति ध्रुवम् । कूटसाक्ष्यं कूटमानं तुलाकूटं करोति यः
कूटवेदं पठेद्यस्तु कूटशास्त्रं तथैव च । ज्योतिषी गणकः कूटः कूटायुर्वैदिको भिषक्
कूटसाक्ष्य समायुक्तो विज्ञेया नरकौकसः । अपरा सेवनाद्राजन्पापैर्मुक्ता भवंति ते
क्षत्त्रियः क्षात्रधर्मं यस्त्यक्त्वा युद्धात्पलायते । स याति नरकं घोरं स्वीयधर्मबहिष्कृतः
अपरा सेवनात्सोऽपि पापं त्यक्त्वा दिवं व्रजेत् । विद्यावान्यः स्वयं शिष्यो गुरुनिंदां करोति च
स महापातकैर्युक्तो निरयं याति दारुणम् । अपरा सेवनात्सोऽपि सद्गतिं प्राप्नुयान्नरः
महिमानमपरायाः शृणु राजन्वदाम्यहम् । मकरस्थे रवौ माघे प्रयागे यत्फलं नृणाम्
काश्यां यत्प्राप्यते पुण्यमुपरागे निमज्जनात् । गयायां पिंडदानेन पितॄणां तृप्तिदो यथा
सिंहस्थिते देवगुरौ गौतम्यां स्नातको नरः । कन्यागते गुरौ राजन्कृष्णवेणी निमज्जनात्
यत्फलं समवाप्नोति कुंभकेदार दर्शनात् । बदर्याश्रमयात्रायां तत्तीर्थसेवनादपि
यत्फलं समवाप्नोति कुरुक्षेत्रे रविग्रहे । गजाश्व हेमदानेन यज्ञं कृत्वा सदक्षिणम्
तादृशं फलमाप्नोति अपरा व्रतसेवनात् । अर्धप्रसूतां गां दत्वा सुवर्णं वसुधां तथा
नरो यत्फलमाप्नोति अपराया व्रतेन तत् । पापद्रुमकुठारीयं पापेंधन दवानलः
पापांधकारतरणिः पापसारंग केसरी । बुद्बुदा इव तोयेषु पुत्तिका इव जंतुषु