सर्वपापहरा नॄणां गर्भवासनिकृंतनी । वरूथिन्या व्रतेनैव मांधाता स्वर्गतिं गतः
धुंधुमारादयश्चान्ये राजानो बहवस्तथा । ब्रह्मकपालनिर्मुक्तो बभूव भगवान्भवः
दशवर्षसहस्राणि तपस्तप्यति यो नरः । कुरुक्षेत्रे रविग्रहे स्वर्णभारं ददाति यः । तत्तुल्यंफलमाप्नोतिवरूथिन्याव्रतंचरन्
श्रद्धावान्यस्तु कुरुते वरूथिन्या व्रतं नरः । वांछितं लभते सोऽपि इहलोके परत्र च
पवित्रा पावनी ह्येषा महापातकनाशिनी । भुक्तिमुक्तिप्रदा चैव कर्तॄणां नृपसत्तम
अश्वदानान्नृपश्रेष्ठ गजदानं विशिष्यते । गजदानाद्भूमिदानं तिलदानं ततोऽधिकम्
तस्माच्च स्वर्णदानं वै अन्नदानं ततोऽधिकम् । अन्नदानात्परं दानं न भूतं न भविष्यति
पितृदेवमनुष्याणां तृप्तिरन्नेन जायते । तत्समं कविभिः प्रोक्तं कन्यादानं नृपोत्तम
धेनुदानं च तत्तुल्यमित्याह भगवान्स्वयम् । प्रोक्तेभ्यः सर्वदानेभ्यो विद्यादानं विशिष्यते
तत्फलं समवाप्नोति नरः कृत्वा वरूथिनीम् । कन्यावित्तेन जीवंति ये नराः पापमोहिताः
पुण्यक्षयं ते गच्छंति निरयं यातनामयम् । तस्मात्सर्वप्रयत्नेन न ग्राह्यं कन्यकाधनम्
यश्च गृह्णाति लोभेन कन्यां क्रीत्वा च तद्धनम् । सोऽन्यजन्मनि राजेंद्र ओतुर्भवति निश्चितम्
कन्यां पुण्येन यो दद्याद्यथाशक्ति स्वलंकृताम् । तत्पुण्यसंख्यां नृपते चित्रगुप्तो न शक्नुयात्
तत्तुल्यं फलमाप्नोति नरः कृत्वा वरूथिनीम् । कांस्यं मांसं मसूरांश्च चणकान्कोद्रवांस्तथा
शाकं मधु परान्नं च पुनर्भोजन मैथुने । वैष्णवो व्रतकर्ता च दशम्यां दश वर्जयेत्
द्यूतं क्रीडां च निद्रां च तांबूलं दंतधावनम् । परापवादं पैशुन्यं स्तेयं हिंसां तथा रतिम्
क्रोधं चैवानृतं वाक्यमेकादश्यां विवर्जयेत् । कांस्यं मांसं सुरां क्षौद्रं तैलं पतितभाषणम्
व्यायामं च प्रवासं च पुनर्भोजनमैथुनम् । वृषपृष्ठं मसूरान्नं द्वादश्यां परिवर्जयेत्
अनेन विधिना राजन्विहिता यैर्वरूथिनी । सर्वपापक्षयं कृत्वा दद्यात्प्रांतेऽक्षयां गतिम् । रात्रौ जागरणं कृत्वा पूजितो मधुसूदनः
सर्वपापविनिर्मुक्तास्ते यांति परमां गतिम् । तस्मात्सर्वप्रयत्नेन कर्तव्या पापभीरुभिः
क्षपारितनयाद्भीतो नरः कुर्याद्वरूथिनीम् । पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुमापतिनारदसंवादे वैशाखकृष्णवरूथिनी एकादशी नाम अष्टचत्वारिंशोऽध्यायः
युधिष्ठिर उवाच- वैशाख शुक्लपक्षे तु किन्नामैकादशी भवेत् । किं फलं को विधिस्तत्र कथयस्व जनार्दन
श्रीकृष्ण उवाच- इदमेव पुरा पृष्टं रामचंद्रेण धीमता । वसिष्ठं प्रति राजेंद्र यत्त्वं मामनुपृच्छसि
राम उवाच- भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम् । सर्वपापक्षयकरं सर्वदुःखनिकृंतनम्
मया दुःखानि भुक्तानि सीताविरहजानि तु । ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने
वसिष्ठ उवाच- साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः । त्वन्नामग्रहणेनैव पूतो भवति मानवः
तथापि कथयिष्यामि लोकानां हितकाम्यया । पवित्रं पावनानां च व्रतानामुत्तमं व्रतम्
वैशाखस्य सिते पक्षे राम चैकादशी भवेत् । मोहिनी नाम सा प्रोक्ता सर्वपापहरापराः
मोहजालात्प्रमुच्यंते पातकानां समूहतः । अस्या व्रत प्रभावेन सत्यं सत्यं वदाम्यहम्