यतः पत्नीवशोपेतो गायमानो ममाग्रतः । वचनात्तस्य राजेंद्र रक्षोरूपो बभूव सः
रौद्राननो विरूपाक्षो दृष्टमात्रो भयंकरः । बाहूयोजनविस्तीर्णौ मुखं कंदरसन्निभम्
चंद्रसूर्यनिभे नेत्रे ग्रीवापर्वतसंनिभा । नासारंध्रे तु विवरे अधरौ योजनायतौ
शरीरं तस्य राजेंद्र उत्थितं योजनाष्टकम् । ईदृशो राक्षसो भूत्वा भुंजानः कर्मणः फलम्
ललिता तु तथालोक्य स्वपतिं विकृताकृतिम् । चिंतयामास मनसा दुःखेन महतार्दिता
किं करोमि क्व गच्छामि पतिः शापेन पीडितः । इति संस्मृत्य संस्मृत्य मनसा शर्म नालभत्
चचार पतिना सार्द्धं ललिता गहने वने । बभ्राम विपिने दुर्गे कामरूपी स राक्षसः
निर्घृणः पापनिरतो विरूपः पुरुषादकः । न सुखं लभते रात्रौ न दिवा पापपीडितः
ललिता दुःखितातीव पतिं दृष्ट्वा तथाविधम् । बभ्राम तेन सार्द्धं सा रुदती गहने वने
दृष्ट्वाश्रमपदं रम्यं मुनिं संशांतविग्रहम् । शीघ्रं जगाम ललिता नमस्कृत्याग्रतः स्थिता
तां दृष्ट्वा स मुनिः प्राह दुःखितां हि दयापरः । का त्वं कस्मादिहायाता सत्यं वद ममाग्रतः
ललितोवाच- वीरधन्वेति गंधर्वः सुता तस्य महात्मनः । ललितां नाम मां विद्धि पत्यर्थमिह चागताम्
भर्ता मे पापदोषेण राक्षसोऽभून्महामुने । रौद्ररूपो दुराचारस्तं दृष्ट्वा नास्ति मे सुखम्
सांप्रतं शाधि मां ब्रह्मन्यत्कृत्यं तद्वद प्रभो । कुरुष्व तद् व्रतं भद्रे विधिपूर्वं मयोदितम्
ऋषिरुवाच- चैत्रमासस्य रंभोरु शुक्लपक्षोऽस्ति सांप्रतम् । कामदैकादशीनाम पापघ्नी ललिते परा
कुरुष्व तद्व्रतं भद्रे विधिपूर्वं मयोदितम् । अस्य व्रतस्य यत्पुण्यं तत्स्वभर्त्रे प्रदीयताम्
दत्ते पुण्येक्षणात्तस्य शापदोषः प्रयास्यति । इति श्रुत्वा मुनेर्वाक्यं ललिता हर्षिताभवत्
उपोष्यैकादशीं राजन्द्वादशीदिवसे तथा । विप्रस्यैव समीपे तद्वासुदेवस्य चाग्रतः
वाक्यमुवाच ललिता स्वपत्युस्तारणाय वै । मया तु तद्व्रतं चीर्णं कामदाया उपोषणम्
तस्य पुण्यप्रभावेन गच्छत्वस्य पिशाचता । ललितावचनादेव वर्त्तमानोऽपि तत्क्षणे
गतपापः स ललितो दिव्यदेहो बभूव ह । राक्षसत्वं गतं तस्य प्राप्ता गंधर्वता पुनः
हेमरत्नसमाकीर्णो रेमे ललितया सह । विमानवरमारूढौ पूर्वरूपाधिकौ च तौ
दंपती अत्यशोभेतां कामदायाः प्रभावतः । इति ज्ञात्वा नृपश्रेष्ठ कर्तव्यैषा प्रयत्नतः
लोकानां तु हितार्थाय तवाग्रे कथिता मया । ब्रह्महत्यादि पापघ्नी पिशाचत्वविनाशनी
नातः परतरा काचित्त्रैलोक्ये सचराचरे । पठनाच्छ्रवणाद्राजन्वाजपेयफलं लभेत्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे चैत्रशुक्ला कामदानाम सप्तचत्वारिंशोऽध्यायः
युधिष्ठिर उवाच- वैशाखस्यासिते पक्षे किंनामैकादशी भवेत् । महिमानं कथय मे वासुदेव नमोऽस्तु ते
श्रीकृष्ण उवाच- सौभाग्यदायिनी राजन्निहलोके परत्र च । वैशाखकृष्णपक्षे तु नाम्ना चैव वरूथिनी
वरूथिन्या व्रतेनैव सौख्यं भवति सर्वदा । पापहानिश्च भवति सौभाग्यप्राप्तिरेव च
दुर्भगा या करोत्येनां सा स्त्री सौभाग्यमाप्नुयात् । लोकानां चैव सर्वेषां भुक्तिमुक्तिप्रदायिनी