च्यवन उवाच- चैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी । अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत्
इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम् । गतं पापं क्षयं तस्य तपोयुक्तो बभूव सः
साप्येवं मंजुघोषा च कृत्वैतद्व्रतमुत्तमम् । पिशाचत्वाद्विनिर्मुक्ता पापमोचनिकाव्रतात् । दिव्यरूपधरा सा वै गता नाके वराप्सराः
लोमश उवाच- पापमोचनिकां राजन्ये कुर्वंति नरोत्तमाः । तेषां पापं च यत्किंचित्तत्सर्वं च क्षयं व्रजेत्
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् । ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः
व्रतस्य चास्य करणात्पापमुक्ता भवंति ते । बहुपुण्यप्रदं ह्येतत्करणाद्व्रतमुत्तमम्
युधिष्ठिर उवाच- वासुदेव नमस्तुभ्यं कथयस्व ममाग्रतः । चैत्रस्य शुक्लपक्षे तु किं नामैकादशी भवेत्
श्रीकृष्ण उवाच- शृणुष्वैकमना राजन्कथां पुण्यां पुरातनीम् । वसिष्ठो यामकथयत्प्राग्दिलीपाय पृच्छते
दिलीप उवाच- भगवञ्छ्रोतुमिच्छामि कथयस्व प्रसादतः । चैत्रमासि सिते पक्षे किंनामैकादशी भवेत्
वसिष्ठ उवाच- साधु पृष्टं त्वया राजन्कथयामि तवाग्रतः । चैत्रस्य शुक्लपक्षे तु कामदा नाम नामतः
एकादशी पुण्यतमा पापेंधनदवानलः । शृणु राजन्कथामेतां पापघ्नीं पुण्यदायिनीम्
पुरा नागपुरे रम्ये हेमरत्नविभूषिते । पुंडरीकमुखा नागा निवसंति महोत्कटाः
तस्मिन्पुरे पुंडरीको राजा राज्यं चकार सः । गन्धर्वैः किन्नरैश्चैव अप्सरोभिश्च सेव्यते
वराप्सरास्तु ललिता गंधर्वो ललितस्तथा । उभौ रागेण संरक्तौ दंपती कामपीडितौ
रेमाते स्वगृहे रम्ये धनधान्ययुते तदा । ललितायाश्च हृदये पतिर्वसति सर्वदा
हृदये तस्य ललिता नित्यं वसति भामिनी । एकदा पुंडरीकोऽथ क्रीडते सदसि स्थितः
गीतं गानं प्रकुरुते ललितो दयितां विना । पदबंधस्खलज्जिह्वो बभूव ललितां स्मरन्
मनोभावं विदित्वास्य कर्कटो नागसत्तमः । पदबंधच्युतिं तस्य पुंडरीके न्यवेदयत्
श्रुत्वा कर्कोटकवचः पुंडरीको भुजंगराट् । क्रोधसंरक्तनयनो बभूवातिभयंकरः
शशाप ललितं तत्र गायंतं मदनातुरम् । राक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादकः
यतः पत्नीवशोपेतो गायमानो ममाग्रतः । वचनात्तस्य राजेंद्र रक्षोरूपो बभूव सः
रौद्राननो विरूपाक्षो दृष्टमात्रो भयंकरः । बाहूयोजनविस्तीर्णौ मुखं कंदरसन्निभम्
चंद्रसूर्यनिभे नेत्रे ग्रीवापर्वतसंनिभा । नासारंध्रे तु विवरे अधरौ योजनायतौ
शरीरं तस्य राजेंद्र उत्थितं योजनाष्टकम् । ईदृशो राक्षसो भूत्वा भुंजानः कर्मणः फलम्
ललिता तु तथालोक्य स्वपतिं विकृताकृतिम् । चिंतयामास मनसा दुःखेन महतार्दिता
किं करोमि क्व गच्छामि पतिः शापेन पीडितः । इति संस्मृत्य संस्मृत्य मनसा शर्म नालभत्
चचार पतिना सार्द्धं ललिता गहने वने । बभ्राम विपिने दुर्गे कामरूपी स राक्षसः
निर्घृणः पापनिरतो विरूपः पुरुषादकः । न सुखं लभते रात्रौ न दिवा पापपीडितः
ललिता दुःखितातीव पतिं दृष्ट्वा तथाविधम् । बभ्राम तेन सार्द्धं सा रुदती गहने वने
दृष्ट्वाश्रमपदं रम्यं मुनिं संशांतविग्रहम् । शीघ्रं जगाम ललिता नमस्कृत्याग्रतः स्थिता