नेत्राभ्यां विस्फुलिंगान्स मुंचमानोऽतिकोपनः । कालरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम्
दुःखार्जितं क्षयं नीतं तपोदृष्ट्वातयासह । सकंपोष्ठो मुनिस्तत्रप्रत्युवाचाकुलेंद्रियः
तां शशापाथमेधावी त्वं पिशाची भवेति च । धिक्त्वां पापे दुराचारे कुलटे पातकप्रिये
तस्य शापेन सा दग्धा विनयावनता स्थिता । उवाच वचनं सुभ्रूः प्रसादं वांछती मुनिम् । प्रसादं कुरु विप्रेंद्र शापस्यानुग्रहं कुरु
सतां संगो हि भवति वचोभिः सप्तभिः पदैः । त्वया सह मम ब्रह्मन्नीता वै बहुवत्सराः । एतस्मात्कारणात्स्वामिन्प्रसादं कुरु सुव्रत
मुनिरुवाच- शृणु मे वचनं भद्रे शापानुग्रहकारकम् । किं करोमि त्वया पापे क्षयं नीतं महत्तपः
चैत्रस्य कृष्णपक्षे तु भवेदेकादशी शुभा । पापमोचनिका नाम सर्वपापक्षयंकरी
तस्या व्रते कृते शुभ्रे पिशाचत्वं प्रयास्यति । इत्युक्त्वा सोऽपि मेधावी जगाम पितुराश्रमम्
तमागतं समालोक्य च्यवनः प्रत्युवाचतम् । किमेतद्विहितं पुत्र त्वया पुण्यं क्षयं कृतम्
मेधाव्युवाच- पातकं वै कृतं तात रमिता चाप्सरा मया । प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत्
च्यवन उवाच- चैत्रस्य चासिते पक्षे नाम्ना वै पापमोचनी । अस्या व्रते कृते पुत्र पापराशिः क्षयं व्रजेत्
इति श्रुत्वा पितुर्वाक्यं कृतं तेन व्रतोत्तमम् । गतं पापं क्षयं तस्य तपोयुक्तो बभूव सः
साप्येवं मंजुघोषा च कृत्वैतद्व्रतमुत्तमम् । पिशाचत्वाद्विनिर्मुक्ता पापमोचनिकाव्रतात् । दिव्यरूपधरा सा वै गता नाके वराप्सराः
लोमश उवाच- पापमोचनिकां राजन्ये कुर्वंति नरोत्तमाः । तेषां पापं च यत्किंचित्तत्सर्वं च क्षयं व्रजेत्
पठनाच्छ्रवणाद्राजन्गोसहस्रफलं लभेत् । ब्रह्महा हेमहारी च सुरापो गुरुतल्पगः
व्रतस्य चास्य करणात्पापमुक्ता भवंति ते । बहुपुण्यप्रदं ह्येतत्करणाद्व्रतमुत्तमम्
युधिष्ठिर उवाच- वासुदेव नमस्तुभ्यं कथयस्व ममाग्रतः । चैत्रस्य शुक्लपक्षे तु किं नामैकादशी भवेत्
श्रीकृष्ण उवाच- शृणुष्वैकमना राजन्कथां पुण्यां पुरातनीम् । वसिष्ठो यामकथयत्प्राग्दिलीपाय पृच्छते
दिलीप उवाच- भगवञ्छ्रोतुमिच्छामि कथयस्व प्रसादतः । चैत्रमासि सिते पक्षे किंनामैकादशी भवेत्
वसिष्ठ उवाच- साधु पृष्टं त्वया राजन्कथयामि तवाग्रतः । चैत्रस्य शुक्लपक्षे तु कामदा नाम नामतः
एकादशी पुण्यतमा पापेंधनदवानलः । शृणु राजन्कथामेतां पापघ्नीं पुण्यदायिनीम्
पुरा नागपुरे रम्ये हेमरत्नविभूषिते । पुंडरीकमुखा नागा निवसंति महोत्कटाः
तस्मिन्पुरे पुंडरीको राजा राज्यं चकार सः । गन्धर्वैः किन्नरैश्चैव अप्सरोभिश्च सेव्यते
वराप्सरास्तु ललिता गंधर्वो ललितस्तथा । उभौ रागेण संरक्तौ दंपती कामपीडितौ
रेमाते स्वगृहे रम्ये धनधान्ययुते तदा । ललितायाश्च हृदये पतिर्वसति सर्वदा
हृदये तस्य ललिता नित्यं वसति भामिनी । एकदा पुंडरीकोऽथ क्रीडते सदसि स्थितः
गीतं गानं प्रकुरुते ललितो दयितां विना । पदबंधस्खलज्जिह्वो बभूव ललितां स्मरन्
मनोभावं विदित्वास्य कर्कटो नागसत्तमः । पदबंधच्युतिं तस्य पुंडरीके न्यवेदयत्
श्रुत्वा कर्कोटकवचः पुंडरीको भुजंगराट् । क्रोधसंरक्तनयनो बभूवातिभयंकरः
शशाप ललितं तत्र गायंतं मदनातुरम् । राक्षसो भव दुर्बुद्धे क्रव्यादः पुरुषादकः