कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे । मंजुघोषाभवत्तस्य कामस्यैव वरूथिनी
मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता । यौवनोद्भिन्नदेहोऽसौ मेधाव्यपि विराजते
सितोपवीतसहितो दृष्टः स्मर इवापरः । मेधावी वसते चासौ च्यवनस्याश्रमे शुभे
मंजुघोषा स्थितं तत्र दृष्ट्वा सा मुनिपुंगवम् । मदनस्य वशं प्राप्ता मंदं मंदमगायत
रणद्वलयसंयुक्तां शिंजन्नूपुरमेखलाम् । गायंतीं तां तथाभूतां विलोक्य मुनिपुंगवः
मदनेन ससैन्येन नीतो मोहवशं बलात् । मंजुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम्
हावभावकटाक्षैस्तं मोहयामास चांगना । अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम्
वलितेव लता वृक्षं वातवेगेन कंपितम् । सोऽपि रेमे तया सार्द्धं मेधावी मुनिपुंगवः
तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमम् । शिवतत्वं गतं तस्य कामतत्त्ववशं गतः
न निशां न दिनं सोऽपि रमन्जानाति कामुकः । बहुवर्षं गतः कालो मुनेराचारलोपतः
मंजुघोषा देवलोकगमनायोपचक्रमे । गच्छंती तं प्रत्युवाच रमंतं मुनिसत्तमम् । आदेशो दीयतां ब्रह्मन्स्वदेशगमनाय मे
मेधाव्युवाच- अद्यैव त्वं समायाता प्रदोषादौ वरानने । यावत्प्रभातसंध्या स्यात्तावत्तिष्ठ ममांतिके । इति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा
पुनर्वै रमयामास तमृषिं नृपसत्तम । मुनेः शापभयाद्भीता बहुलान्परिवत्सरान्
वर्षाणां पंचपंचाशन्नवमासदिनत्रयम् । सा रेमे मुनिना तस्य निशार्द्धमिव चाभवत्
सा तं पुनरुवाचाथ तस्मिन्काले गते मुनिम् । आदेशो दीयतां ब्रह्मन्गंतव्यं स्वगृहे मया
मेधाव्युवाच- प्रभातमधुना चास्ते श्रूयतां वचनं मम । संध्या यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव
इति वाक्यं मुनेः श्रुत्वा जातानंदसमाकुला । स्मितं कृत्वा तु सा किंचित्प्रत्युवाच शुचिस्मिता
अप्सरा उवाच-। कियत्प्रमाणा विप्रेंद्र तव संध्या गतानघ । मयि प्रसादं कृत्वा तु गतकालो विचार्यताम्
इति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः । गतकालस्य विप्रेंद्र प्रमाणमकरोत्तदा
समाश्च सप्तपंचाशद्गतास्तस्य तया सह । चुक्रोध सततस्तस्यै ज्वालामाली बभूव ह
नेत्राभ्यां विस्फुलिंगान्स मुंचमानोऽतिकोपनः । कालरूपां तु तां दृष्ट्वा तपसः क्षयकारिणीम्
दुःखार्जितं क्षयं नीतं तपोदृष्ट्वातयासह । सकंपोष्ठो मुनिस्तत्रप्रत्युवाचाकुलेंद्रियः
तां शशापाथमेधावी त्वं पिशाची भवेति च । धिक्त्वां पापे दुराचारे कुलटे पातकप्रिये
तस्य शापेन सा दग्धा विनयावनता स्थिता । उवाच वचनं सुभ्रूः प्रसादं वांछती मुनिम् । प्रसादं कुरु विप्रेंद्र शापस्यानुग्रहं कुरु
सतां संगो हि भवति वचोभिः सप्तभिः पदैः । त्वया सह मम ब्रह्मन्नीता वै बहुवत्सराः । एतस्मात्कारणात्स्वामिन्प्रसादं कुरु सुव्रत
मुनिरुवाच- शृणु मे वचनं भद्रे शापानुग्रहकारकम् । किं करोमि त्वया पापे क्षयं नीतं महत्तपः
चैत्रस्य कृष्णपक्षे तु भवेदेकादशी शुभा । पापमोचनिका नाम सर्वपापक्षयंकरी
तस्या व्रते कृते शुभ्रे पिशाचत्वं प्रयास्यति । इत्युक्त्वा सोऽपि मेधावी जगाम पितुराश्रमम्
तमागतं समालोक्य च्यवनः प्रत्युवाचतम् । किमेतद्विहितं पुत्र त्वया पुण्यं क्षयं कृतम्
मेधाव्युवाच- पातकं वै कृतं तात रमिता चाप्सरा मया । प्रायश्चित्तं ब्रूहि तात येन पापक्षयो भवेत्