लोमश उवाच- चैत्रमास्यसिते पक्षे नाम्ना वै पापमोचनी । एकादशी समाख्याता पिशाचत्वविनाशिनी
शृणु तस्याः प्रवक्ष्यामि कामदां सिद्धिदां नृप । कथां विचित्रां शुभदां पापघ्नीं धर्मदायिनीम्
पुरा चैत्ररथोद्देशे अप्सरोगणसेविते । वसंतसमये प्राप्ते षट्पदाकुलिते वने
गंधर्वकन्यावादित्रै रमंति सह किंनरैः । पाकशासनमुख्याश्च क्रीडांते त्रिदिवौकसः
नापरं सुखदं किंचिद्विना चैत्ररथाद्वनम् । तस्मिन्वने तु मुनयस्तपंति बहुलं तपः
मेधावि नामानमृषिं तत्रस्थं ब्रह्मचारिणम् । अप्सरास्तं मुनिवरं मोहनायोपचक्रमे
मंजुघोषेति विख्याता भावं तस्य वितन्वती । क्रोशमात्रं स्थिता तस्य भयादाश्रमसन्निधौ
गायंती मधुरं साधु पीडयंती विपंचिकाम् । गायंतीं तामथालोक्य पुष्पचंदनसेविताम्
कामोऽपि विजयाकांक्षी शिवभक्तान्मुनीश्वरान् । तस्याः शरीरे संवासमकरोन्मनसः सुतः
कृत्वा भ्रुवौ धनुष्कोटिं गुणं कृत्वा कटाक्षकम् । मार्गणौ नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम्
कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे । मंजुघोषाभवत्तस्य कामस्यैव वरूथिनी
मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता । यौवनोद्भिन्नदेहोऽसौ मेधाव्यपि विराजते
सितोपवीतसहितो दृष्टः स्मर इवापरः । मेधावी वसते चासौ च्यवनस्याश्रमे शुभे
मंजुघोषा स्थितं तत्र दृष्ट्वा सा मुनिपुंगवम् । मदनस्य वशं प्राप्ता मंदं मंदमगायत
रणद्वलयसंयुक्तां शिंजन्नूपुरमेखलाम् । गायंतीं तां तथाभूतां विलोक्य मुनिपुंगवः
मदनेन ससैन्येन नीतो मोहवशं बलात् । मंजुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम्
हावभावकटाक्षैस्तं मोहयामास चांगना । अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम्
वलितेव लता वृक्षं वातवेगेन कंपितम् । सोऽपि रेमे तया सार्द्धं मेधावी मुनिपुंगवः
तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमम् । शिवतत्वं गतं तस्य कामतत्त्ववशं गतः
न निशां न दिनं सोऽपि रमन्जानाति कामुकः । बहुवर्षं गतः कालो मुनेराचारलोपतः
मंजुघोषा देवलोकगमनायोपचक्रमे । गच्छंती तं प्रत्युवाच रमंतं मुनिसत्तमम् । आदेशो दीयतां ब्रह्मन्स्वदेशगमनाय मे
मेधाव्युवाच- अद्यैव त्वं समायाता प्रदोषादौ वरानने । यावत्प्रभातसंध्या स्यात्तावत्तिष्ठ ममांतिके । इति श्रुत्वा मुनेर्वाक्यं भयभीता बभूव सा
पुनर्वै रमयामास तमृषिं नृपसत्तम । मुनेः शापभयाद्भीता बहुलान्परिवत्सरान्
वर्षाणां पंचपंचाशन्नवमासदिनत्रयम् । सा रेमे मुनिना तस्य निशार्द्धमिव चाभवत्
सा तं पुनरुवाचाथ तस्मिन्काले गते मुनिम् । आदेशो दीयतां ब्रह्मन्गंतव्यं स्वगृहे मया
मेधाव्युवाच- प्रभातमधुना चास्ते श्रूयतां वचनं मम । संध्या यावच्च कुर्वेऽहं तावत्त्वं वै स्थिरा भव
इति वाक्यं मुनेः श्रुत्वा जातानंदसमाकुला । स्मितं कृत्वा तु सा किंचित्प्रत्युवाच शुचिस्मिता
अप्सरा उवाच-। कियत्प्रमाणा विप्रेंद्र तव संध्या गतानघ । मयि प्रसादं कृत्वा तु गतकालो विचार्यताम्
इति तस्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनः । गतकालस्य विप्रेंद्र प्रमाणमकरोत्तदा
समाश्च सप्तपंचाशद्गतास्तस्य तया सह । चुक्रोध सततस्तस्यै ज्वालामाली बभूव ह