ब्राह्मणं पूजयित्वा तु सर्वं तस्मै निवेदयेत् । जामदग्न्य घटे तत्र वस्त्रयुग्ममुपानहौ
जामदग्न्यस्वरूपेण प्रीयतां मम केशवः । ततश्चामलकीं स्पृष्ट्वा कृत्वा चैव प्रदक्षिणाम्
स्नानं कृत्वा विधानेन ब्राह्मणान्भोजयेत्ततः । ततश्च स्वयमश्नीयात्कुटुंबेन समावृतः
एवं कृतेन यत्पुण्यं तत्सर्वं कथयामि ते । सर्वतीर्थेषु यत्पुण्यं सर्वदानेषु यत्फलम्
सर्वयज्ञाधिकं चैव लभते नात्र संशयः । एतद्वः सर्वमाख्यातं व्रतानामुत्तमं व्रतम्
एतावदुक्त्वा देवेशस्तत्रैवांतरधीयत । ते चापि ऋषयः सर्वे चक्रुः सर्वमशेषतः
तथा त्वमपि राजेन्द्र कर्तुमर्हसि सत्तम । व्रतमेतद्दुराधर्षं सर्वपापप्रमोचनम्
युधिष्ठिर उवाच- फाल्गुनस्य सिते पक्षे श्रुता चामलकी तथा । चैत्रस्य कृष्णपक्षे तु किं नामैकादशी भवेत्
श्रीकृष्ण उवाच- शृणु राजेंद्र वक्ष्यामि आख्यानं पापनाशनम् । यल्लोमशोऽब्रवीत्पृष्टो मांधात्रा चक्रवर्तिना
मांधातोवाच - भगवन्श्रोतुमिच्छामि लोकानां हितकाम्यया । चैत्रस्य प्रथमे पक्षे का नामैकादशी भवेत् । को विधिः किं फलं तस्याः कथयस्व प्रसादतः
लोमश उवाच- चैत्रमास्यसिते पक्षे नाम्ना वै पापमोचनी । एकादशी समाख्याता पिशाचत्वविनाशिनी
शृणु तस्याः प्रवक्ष्यामि कामदां सिद्धिदां नृप । कथां विचित्रां शुभदां पापघ्नीं धर्मदायिनीम्
पुरा चैत्ररथोद्देशे अप्सरोगणसेविते । वसंतसमये प्राप्ते षट्पदाकुलिते वने
गंधर्वकन्यावादित्रै रमंति सह किंनरैः । पाकशासनमुख्याश्च क्रीडांते त्रिदिवौकसः
नापरं सुखदं किंचिद्विना चैत्ररथाद्वनम् । तस्मिन्वने तु मुनयस्तपंति बहुलं तपः
मेधावि नामानमृषिं तत्रस्थं ब्रह्मचारिणम् । अप्सरास्तं मुनिवरं मोहनायोपचक्रमे
मंजुघोषेति विख्याता भावं तस्य वितन्वती । क्रोशमात्रं स्थिता तस्य भयादाश्रमसन्निधौ
गायंती मधुरं साधु पीडयंती विपंचिकाम् । गायंतीं तामथालोक्य पुष्पचंदनसेविताम्
कामोऽपि विजयाकांक्षी शिवभक्तान्मुनीश्वरान् । तस्याः शरीरे संवासमकरोन्मनसः सुतः
कृत्वा भ्रुवौ धनुष्कोटिं गुणं कृत्वा कटाक्षकम् । मार्गणौ नयने कृत्वा पक्ष्मयुक्ते यथाक्रमम्
कुचौ कृत्वा पटकुटीं विजयायोपचक्रमे । मंजुघोषाभवत्तस्य कामस्यैव वरूथिनी
मेधाविनं मुनिं दृष्ट्वा सापि कामेन पीडिता । यौवनोद्भिन्नदेहोऽसौ मेधाव्यपि विराजते
सितोपवीतसहितो दृष्टः स्मर इवापरः । मेधावी वसते चासौ च्यवनस्याश्रमे शुभे
मंजुघोषा स्थितं तत्र दृष्ट्वा सा मुनिपुंगवम् । मदनस्य वशं प्राप्ता मंदं मंदमगायत
रणद्वलयसंयुक्तां शिंजन्नूपुरमेखलाम् । गायंतीं तां तथाभूतां विलोक्य मुनिपुंगवः
मदनेन ससैन्येन नीतो मोहवशं बलात् । मंजुघोषा समागम्य मुनिं दृष्ट्वा तथाविधम्
हावभावकटाक्षैस्तं मोहयामास चांगना । अधः संस्थाप्य वीणां सा सस्वजे तं मुनीश्वरम्
वलितेव लता वृक्षं वातवेगेन कंपितम् । सोऽपि रेमे तया सार्द्धं मेधावी मुनिपुंगवः
तस्मिन्नेव ततो दृष्ट्वा तस्यास्तं देहमुत्तमम् । शिवतत्वं गतं तस्य कामतत्त्ववशं गतः
न निशां न दिनं सोऽपि रमन्जानाति कामुकः । बहुवर्षं गतः कालो मुनेराचारलोपतः