ज्ञात्वा मुनिस्ततो रामं पुराणं पुरुषोत्तमम् । केनापि कारणेनैव प्रविष्टो मानुषीं तनुम्
उवाच स ऋषिस्तुष्टः कुतो राम तवागमः
राम उवाच- त्वत्प्रसादादहं विप्र तीरं नदनदीपतेः । आगतोऽस्मि ससैन्योऽत्र लंकां जेतुं सराक्षसाम्
भवतश्चानुकूलत्वात्तीर्यतेऽब्धिर्यथा मया । तमुपायं वद मुने प्रसादं कुरु सांप्रतम्
एतस्मात्कारणादेव द्रष्टुं त्वाहमिहागतः । रामस्य वचनं श्रुत्वा बकदाल्भ्यो महामुनिः
उवाच सुप्रसन्नात्मा रामं राजीवलोचनम् । कर्तव्यमद्य ते राम व्रतानां व्रतमुत्तमम्
कृतेन येन सहसा विजयस्ते भविष्यति । लंकां जित्वा राक्षसांश्च स्वच्छां कीर्तिमवाप्स्यसि
एकाग्रमानसो भूत्वा व्रतमेतत्समाचर । फाल्गुनस्यासिते पक्षे विजयैकादशी भवेत्
तस्या व्रतेन हे राम विजयस्ते भविष्यति । निःसंशयं समुद्रं त्वं तरिष्यसि सवानरः
विधिस्तु श्रूयतां राजन्व्रतस्यास्य फलप्रदः । दशम्यां दिवसे प्राप्ते कुंभमेकं तु कारयेत्
हैमं वा राजतं वापि ताम्रं वाप्यथ मृन्मयम् । स्थापयेच्छोभितं चैव जलपूर्णं सपल्लवम्
सप्तधान्यान्यधस्तस्य यवानुपरि विन्यसेत् । तस्योपरि न्यसेद्देवं हैमं नारायणं प्रभुम्
एकादशीदिने प्राप्ते प्रातः स्नानं समाचरेत् । निश्चलं स्थापयेत्कुंभं कंठमाल्यानुलेपनैः
पूगीफलैर्नालिकेरैः पूजयेच्च विशेषतः । गंधैर्धूपैश्चदीपैश्च नैवेद्यैर्विविधैरपि
कुंभाग्रे तद्दिनं राम नीयते सत्कथादिभिः । रात्रौ जागरणं चैव तस्याग्रे कारयेद्बुधः
प्रकाशयेद्घृतदीपमखंडव्रतहेतवे । द्वादशीदिवसे प्राप्ते मार्तंडस्योदये सति
नीत्वा कुंभं जलोद्देशे नद्याः प्रस्रवणे तथा । तडागे स्थापयित्वा तं पूजयित्वा यथाविधि
दद्यात्सदेवं तं कुंभं ब्राह्मणे वेदपारगे । कुंभेन सह राजेंद्र महादानानि दापयेत्
अनेनविधिना राम यूथपैः सह संगतः । कुरु व्रतं प्रयत्नेन विजयस्ते भविष्यति
इति श्रुत्वा ततो रामो यथोक्तमकरोत्तदा । कृते व्रते स विजयी बभूव रघुनंदनः
प्राप्ता सीता जिता लंका पौलस्त्यो निहतो रणे । अनेनविधिना पुत्र ये कुर्वंति नरा व्रतम्
इहलोकजयप्राप्तिः परलोकस्तथाक्षयः । एतस्मात्कारणात्पुत्र कर्तव्यं विजयाव्रतम्
विजयायाश्च माहात्म्यं सर्वकिल्बिषनाशनम् । पठनाच्छ्रवणाच्चैव वाजपेयफलं लभेत्
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे फाल्गुनकृष्णाविजयामाहात्म्यंनाम चतुश्चत्वारिंशोऽध्यायः
श्रीकृष्ण उवाच- माहात्म्यं विजयायाश्च श्रुतं कृष्ण महत्फलम् । फाल्गुनस्यार्जुने पक्षे यन्नाम्नी तां वदाधुना
श्रीकृष्ण उवाच-। धर्मपुत्र महाभाग शृणु वक्ष्यामितेऽधुना । योक्ता पृष्टेन मांधात्रा वसिष्ठेन महात्मना
फाल्गुनस्य विशेषेण विशेषः कथितो नृप । आमलकीव्रतं पुण्यं विष्णुलोकफलप्रदम्
आमलक्यास्तले गत्वा जागरं तत्र कारयेत् । कृत्वा जागरणं रात्रौ गोसहस्रफलं लभेत्
मांधातोवाच - आमलकी कदा ह्येषा उत्पन्ना द्विजसत्तम । एतत्सर्वं ममाचक्ष्व परं कौतूहलं हि मे
कस्मादियं पवित्रा च कस्मात्पापप्रणाशिनी । कस्माज्जागरणं कृत्वा गोसहस्रफलं लभेत्