लोमश उवाच- वानप्रस्थो ब्रह्मचारी भिक्षुश्चैषां प्रपूजनात् । निरुच्यते गृहं श्रेष्ठमाश्रमेषु चतुर्ष्वपि
चतुराश्रममध्येषु प्रधाना गृहिणो मताः । तैश्चातिथीनां कर्तव्या पूजा भक्तिसमन्वितैः
गृहिणां परमो धर्मः प्रोक्तश्चातिथिपूजनम् । आश्रमाचारतोऽभ्रष्टास्ततस्ते गृहिणो मताः
वंहत्यतिथिपूजायां दक्षतां गृहिणो यदि । तदा प्रयोजनं तेषां किमन्यैः पुण्यकर्मभिः
यस्य न श्रूयते नाम न च गोत्रं न च स्थितिः । अकस्माद्गृहमागच्छेत्सोऽतिथिः प्रोच्यते बुधैः
ब्राह्मणाः क्षत्रिया वापि वैश्या वा वृषलास्तथा । गृहागताः पूजिताश्च विष्णुवत्तत्त्वदर्शिभिः
चाण्डालप्रमुखा येऽन्ये हीनवर्णसमुद्भवाः । विष्णुवत्पूजितव्यास्ते पाद्यार्घ्यैर्भूरिभोजनैः
समागतेष्वतिथिषु प्रयाणं कुरुते गृही । अपि स त्वरया दद्यात्पाद्यार्घ्यादीनि च द्विजः
कुर्याच्च कुशलं प्रश्नं वचनैः कोमलाक्षरैः । कारयेद्भोजनं वापि दिव्यरत्नैर्मुदा गृही
सुखदे मन्दिरे तस्य शयनं कारयेद्बुधः । प्रातर्जिगमिषुं दृष्ट्वा तमायांतं विवर्जयेत्
यदि कर्मविपाकेन गृही भवति वित्तवान् । अतिथ्येनातिथिः पूज्यस्तदहं वच्मि सत्तमौ
समागतेष्वतिथिषु भक्त्या दद्यात्तृणादिकम् । तृणाभावेन वै ब्रूयाद्भूमौ तिष्ठेति भक्तितः
पादप्रक्षालनार्थं तुदद्यादुदकमुत्तमम् । अतो मधुरया वाचा पृच्छेच्च कुशलादिकम्
फलादिकं ततो दद्याद्भक्त्या भोजनहेतवे । तदभावेन मतिमान्मुदा विप्र प्रकाशयेत्
वदेच्चाहं महापापी दरिद्र प्रवरोऽतिथे । कर्त्तुमिच्छामि भक्तिं ते दैवतंत्रंविरोधकम्
अनेन विधिना दीनः सत्यक्त्वातिथिपूजनम् । स्वाचारपतितो नान्यो यथोक्तं फलमाप्नुयात्
अनर्चितोऽतिथिर्यस्य गच्छेद्वै गृहिणो गृहात् । जन्मकोट्यर्जितं पुण्यं तस्य गच्छति संक्षयम्
एक एवातिथिर्येन भक्तिभावेन पूज्यते । हरेत्तस्य हरिः सद्यो पातकं कोटिजन्मजम्
सत्यं वच्मि हितं वच्मि दृढं वच्मि प्रयत्नतः । विनातिथिसपर्याभिर्गृहिणो नास्ति वा गतिः
सत्यं सत्यं पुनः सत्यमागंतुपूजया विना । गतिर्नास्त्येव नास्त्येव नास्त्येव गृहिधर्मिणाम्
ज्ञातिधर्म इति ख्यातो वल्लभो द्वापरे युगे । बभूव सर्वधर्मज्ञस्तस्य श्रीवल्लभाह्वया
तेन सर्वाणि कर्माणि कृतानि ज्ञातिसेविना । सौराष्ट्रे वसतिं चक्रे तया सह सभार्यया
तत्र दुर्ग्रहसंचाराद्द्वादशाब्दं च वासवः । न ववर्षांबु तेनासीद्दुर्भिक्षं सुमहद्द्विजौ
तस्मिन्महति दुर्भिक्षे लोकास्तद्देशवासिनः । बभूवुर्दुःखिताः सर्वे मर्यादामपि तत्यजुः ५० 7.25.
ज्ञानभद्रो महायोगी युगे द्वापर संज्ञके । दुर्भिक्षहृतसंपत्तिर्बभूवात्यन्तदुःखितः
क्षुधाकुलान्सुतान्दृष्ट्वा दारांश्च द्विजसंमतौ । फलमूलादनार्थाय जगामोत्पत्यकां गिरेः
गिरेरुपत्यकाप्रांते चिरायुः स बुभुक्षितः । कूष्माण्डफलमेकं च लेभे ब्राह्मणसत्तमौ
समादाय फलं तच्च हर्षितोऽसौ निजालयम् । जवैर्जगाम विप्रेन्द्रो ज्ञानभद्रो महायशाः
एतस्मिन्नन्तरे विप्र मेघैर्न्नीलपदैरिव । आवृते गगने वृष्टिर्महासारैर्बभूव ह
स मुनिश्च तया वृष्ट्या प्लाविताखिलविग्रह । वनाद्वनचरः कश्चिच्छीतार्तश्चाययौ गृहम्