इत्थं तयोर्दुःखितयोर्निर्जगाम निशीथिनी । मार्तंड उदयं प्राप्तो द्वादशी दिवसागमे
मया तु राजशार्दूल तयोर्मुक्तिर्धृता हृदि । जयायाः सुव्रतं चीर्णं रात्रौ जागरणं कृतम्
तस्माद्व्रतप्रभावाच्च यथाजातं तथा शृणु । द्वादशीदिवसे प्राप्ते तथा चीर्णे जया व्रते
विष्णोः प्रभावान्नृपते पिशाचत्वं तयोर्गतम् । पुष्पदंती माल्यवतौ पूर्वरूपौ बभूवतुः
पुरातनस्नेहयुतौ पूर्वालंकारधारिणौ । विमानमधिरूढौ तौ गतौ नाके मनोरमे
देवेंद्रस्याग्रतो गत्वा प्रणामं चक्रतुर्मुदा । तथाविधौ तु तौ दृष्ट्वा मघवा विस्मितोऽब्रवीत्
इंद्र उवाच- वद तं केन पुण्येन पिशाचत्वं हि वां गतौ । मम शापं च संप्राप्तौ केन देवेन मोचितौ
माल्यवानुवाच- वासुदेवप्रसादेन जयायास्तु व्रतेन च । पिशाचत्वं गतं स्वामिंस्तव भक्तिप्रभावतः
इति श्रुत्वा तु मघवा प्रत्युवाच पुनस्तथा । पवित्रौ पावनौ जातौ वंदनीयौ ममापि च
हरिवासरकर्तारौ विष्णुभक्तिपरायणौ । हरिवासरसँल्लीना ये च कृष्णपरायणाः 6.43.
अस्माकमपि मर्त्यास्ते पूज्याश्चैव न संशयः । विहरस्व यथासौख्यं पुष्पदंत्या सुरालये
कृष्ण उवाच- एतस्मात्कारणाद्राजन्कर्त्तव्यो हरिवासरः । जया तु राजशार्दूल ब्रह्महत्यापहारिणी
सर्वदानानि तेनैव सर्वयज्ञा अशेषतः । दत्तानि कारिताश्चैव जयायास्तु व्रतं कृतम्
कल्पकोटिर्भवेत्तावद्वैकुंठे मोदते ध्रुवम् । पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत्
युधिष्ठिर उवाच- फाल्गुनस्यासिते पक्षे किंनामैकादशीभवेत् । कथयस्व प्रसादेन वासुदेव ममाग्रतः
श्रीकृष्ण उवाच- नारदः परिपप्रच्छ ब्रह्माणं कमलासनम् । फाल्गुनस्यासिते पक्षे विजयानाम नामतः । तस्याः पुण्यं द्विजश्रेष्ठ कथयस्व प्रसादतः
ब्रह्मोवाच- शृणु नारद वक्ष्यामि कथां पापहराम्पराम् । यन्न कस्यचिदाख्यातं मयैतद्विजयाव्रतम्
पुरातनं व्रतं ह्येतत्पवित्रं पापनाशनम् । जयं ददाति विजया नृपाणां वै न संशयः
पुरा रामो वनं यातो वर्षाण्येव चतुर्दश । न्यवसत्पंचवट्यां तु सहसीतः सलक्ष्मणः
तत्रैव वसतस्तस्य रामस्य विजयात्मनः । रावणेन हृता लौल्याद्भार्या सीता यशस्विनी
तेन दुःखेन रामोऽपि मोहमभ्यागतस्तदा । भ्रमन्जटायुषमथो ददर्श विगतायुषम्
कबंधो निहतः पश्चाद्भ्रमतारण्यमध्यतः । सुग्रीवेण समं तस्य सखित्वं समपद्यत
वानराणामनीकानि रामार्थंसंगतानि च । ततो हनुमता दृष्टा लंकोद्याने तु जानकी
रामसंज्ञापनं तस्यै दत्तं कर्म महत्कृतम् । पुनः समेत्य रामेण सर्वं तत्र निवेदितम्
अथ श्रुत्वा रामचंद्रो वाक्यं चैव हनूमतः । सुग्रीवानुमतेनैव प्रस्थानं समरोचयत्
सौमित्रेकेन पुण्येन तीर्यते वरुणालयः । अगाधो नितरामेष यादोभिश्च समाकुलः । उपायं नैव पश्यामि येनासौ सुतरो भवेत्
लक्ष्मण उवाच- आदिदेवस्त्वमेवासि पुराणपुरुषोत्तमः । बकदाल्भ्यो मुनिश्चात्र वर्तते द्वीपमध्यतः
अस्मात्स्थानाद्योजनार्द्धमाश्रमस्तस्य राघव । अन्ये च ब्राह्मणास्तत्र बहवो रघुनंदन
तं पृच्छ गत्वा राजेंद्र पुराणमृषिपुंगवम् । इति वाक्यं ततः श्रुत्वा लक्ष्मणस्यातिशोभनम्
जगाम राघवो द्रष्टुं बकदाल्भ्यं महामुनिम् । प्रणनाम मुनिं मूर्ध्ना रामो विष्णुमिवामरः