गायमानौ तु तौ तत्र अप्सरोगणसेवितौ । मदनाभिपरीतांगौ पुष्पदंती च माल्यवान्
परस्परानुरागेण व्यामोहवशमागतौ । न शुद्धगानं गायेतां चित्तभ्रमसमन्वितौ
बद्धदृष्टी तथान्योन्यं कामबाणवशं गतौ । ज्ञात्वा लेखर्षभस्तत्र संगतं मानसं तयोः
तालक्रियामानलोपात्तथा गीतविसर्जनात् । चिंतयित्वा तु मघवा ह्यवमानं तथात्मनः
कुपितश्च तयोरर्थे शापं दास्यन्निदं जगौ । धिग्धिग्वां पतितौ मूढावाज्ञाभंग कृतौ मम
युवां पिशाचौ भवतां दंपतीभावधारिणौ । मर्त्यलोकमनुप्राप्तौ भुंजानौ कर्मणः फलम्
एवं मघवता शप्तावुभौ दुःखितमानसौ । हिमवंतं गिरिं प्राप्ताविंद्रशापाद्विमोहितौ
उभौ पिशाचतां प्राप्तौ दारुणं दुःखमेव च । संतप्तमानसौ तत्र हिमकृच्छ्रगतावुभौ
गंधर्वत्वमप्सरस्त्वं न जानीतो विमौहितौ । पीड्यमानौ निदाघेन देहपातकजेन च
न निशायां सुखं शांतिं लभेते कर्मपीडितौ । परस्परं वादमानौ चेरतुर्गिरिगह्वरे
पीड्यमानौ तु शीतेन तुषारप्रभवेन तौ । दंतघर्षं प्रकुर्वाणौ रोमांचितवपुर्द्धरौ
ऊचे पिशाचः स तदा तां पत्नीं स्वां पिशाचिकाम् । किमनल्पकृतं पापं दारुणं रोमहर्षणम्
येन प्राप्तं पिशाचत्वं स्वेन दुष्कृतकर्मणा । नरकं दारुणं मत्वा पिशाचत्वं च दुःखदम्
तस्मात्सर्वप्रयत्नेन पातकं न समाचरेत् । इति चिंतापरौ तत्र तावास्तां दुःखकर्षितौ
दैवयोगात्तयोः प्राप्ता माघस्यैकादशी तिथिः । जयानामेति विख्याता तिथीनामुत्तमा तिथिः
तस्मिन्दिने तु संप्राप्ते तावाहारविवर्जितौ । आसाते तत्र नृपते जलपानविवर्जितौ
न कृतो जीवघातश्च न पत्रफलभक्षणम् । अश्वत्थस्य समीपे तौ सर्वदा दुःखसंयुतौ
रविरस्तंगतो राजंस्तथैव स्थितयोस्तयोः । प्राप्ता चैव निशा घोरा दारुणा प्राणहारिणी
वेपमानौ ततस्तौ तु ततः सुषुपतः क्षितौ । परस्परेण संलग्नौ गात्रयोर्भुजयोरपि
न निद्रा न रतं तत्र न तौ सौख्यमविंदताम् । एवं तौ राजशार्दूल शापेनेंद्रस्य पीडितौ
इत्थं तयोर्दुःखितयोर्निर्जगाम निशीथिनी । मार्तंड उदयं प्राप्तो द्वादशी दिवसागमे
मया तु राजशार्दूल तयोर्मुक्तिर्धृता हृदि । जयायाः सुव्रतं चीर्णं रात्रौ जागरणं कृतम्
तस्माद्व्रतप्रभावाच्च यथाजातं तथा शृणु । द्वादशीदिवसे प्राप्ते तथा चीर्णे जया व्रते
विष्णोः प्रभावान्नृपते पिशाचत्वं तयोर्गतम् । पुष्पदंती माल्यवतौ पूर्वरूपौ बभूवतुः
पुरातनस्नेहयुतौ पूर्वालंकारधारिणौ । विमानमधिरूढौ तौ गतौ नाके मनोरमे
देवेंद्रस्याग्रतो गत्वा प्रणामं चक्रतुर्मुदा । तथाविधौ तु तौ दृष्ट्वा मघवा विस्मितोऽब्रवीत्
इंद्र उवाच- वद तं केन पुण्येन पिशाचत्वं हि वां गतौ । मम शापं च संप्राप्तौ केन देवेन मोचितौ
माल्यवानुवाच- वासुदेवप्रसादेन जयायास्तु व्रतेन च । पिशाचत्वं गतं स्वामिंस्तव भक्तिप्रभावतः
इति श्रुत्वा तु मघवा प्रत्युवाच पुनस्तथा । पवित्रौ पावनौ जातौ वंदनीयौ ममापि च
हरिवासरकर्तारौ विष्णुभक्तिपरायणौ । हरिवासरसँल्लीना ये च कृष्णपरायणाः 6.43.