श्रीकृष्ण उवाच-। एकापिनावदत्तत्र षट्तिलैकादशीव्रतम् । अन्यया कथितं तत्र द्रष्टव्या मानुषी मया
ततो द्वारं समुद्घाट्य दृष्टा ताभिश्च मानुषी । न देवी न च गंधर्वी नासुरी न च पन्नगी
दृष्टा पूर्वं तथा नारी यादृशीयं द्विजर्षभ । देवीनामुपदेशेन षट्तिलाया व्रतं कृतम्
मानुष्या सत्यव्रतया भुक्तिमुक्तिफलप्रदम् । रूपकांतिसमायुक्ता क्षणेन समवाप सा
धनं धान्यं च वस्त्रादि सुवर्णं रौप्यमेव च । भवनं सर्वसंपन्नं षट्तिलायाः प्रभावतः
रूपकांतिसमायुक्ता क्षणेन समपद्यत
अतितृष्णा न कर्त्तव्या वित्तशाठ्यं विवर्जयेत् । आत्मवित्तानुसारेण तिलान्वस्त्राणि दापयेत्
लभते चैवमारोग्यं नरो जन्मनि जन्मनि । न दारिद्र्यं न कष्टत्वं न च दौर्भाग्यमेव च 6.42.
संभवेद्वै द्विजश्रेष्ठ षट्तिलासमुपोषणात् । अनेन विधिना भूप तिलदाता न संशयः
मुच्यते पातकैः सर्वैरनायासेन मानवः । दानं च विधिवत्पात्रे सर्वपातकनाशनम् । नानर्थः कश्चिन्नायासः शरीरे नृपसत्तम
युधिष्ठिर उवाच- साधु कृष्ण त्वया प्रोक्तमादिदेवो भवान्प्रभो । स्वेदजा अंडजाश्चैव उद्भिज्जाश्च जरायुजाः
तेषां कर्त्ता विकर्त्ता त्वं पालकः क्षयकारकः । माघस्य कृष्णपक्षे तु षट्तिला कथिता त्वया
शुक्ले च का भवेद्देव कथयस्व प्रसादतः । किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते
श्रीकृष्ण उवाच- कथयिष्यामि राजेंद्र शुक्ले माघस्य या भवेत् । जया नामेति विख्याता सर्वपापहरा परा
पवित्रा पापहंत्री च कामदा मोक्षदा नृणाम् । ब्रह्महत्यापहंत्री च पिशाचत्वविनाशिनी
नैव तस्या व्रते चीर्णे प्रेतत्वं जायते नृणाम् । नातः परतरा काचित्पापघ्नी मोक्षदायिनी
एतस्मात्कारणाद्राजन्कर्त्तव्या सा प्रयत्नतः । श्रूयतां राजशार्दूल कथा पौराणिकी शुभा
पंकजे च पुराणेऽस्या महिमा कथितो मया । एकदा नाकलोके वै इंद्रो राज्यं चकार ह
देवास्तत्र सुखेनैव निवसंति मनोरमे । पीयूषपाननिरता अप्सरोगणसेविताः
नंदनं तु वनं तत्र पारिजातोपसेवितम् । रमयंति रमंतेऽत्र अप्सरोभिर्दिवौकसः
एकदा रममाणोऽसौ देवेंद्रः स्वेच्छया नृप । नर्त्तयामास वै हर्षात्पंचाशत्कोटिनायकः
गंधर्वास्तत्र गायंति गंधर्वः पुष्पदंतकः । चित्रसेनस्तु तत्रैव चित्रसेनसुता तथा
मालिनीति च नाम्ना तु चित्रसेनस्य योषिता । मालिन्यास्तु समुत्पन्ना पुष्पदंती च नामतः
पुष्पदंतस्य पुत्रोऽसौ माल्यवान्नाम नामतः । पुष्पदंत्याश्च रूपेण माल्यवानतिमोहितः
तया ह्येवं कटाक्षैश्च माल्यवांश्च वशीकृतः । लावण्यं रूपसंपन्नं तस्या रूपं निशामय
बाहू तस्याश्च कामेन कंठपाशौ कृताविव । कर्णायते तु नयने रक्तांते घूर्णिते तथा
कर्णौ तु शोभनौ तस्याः कुण्डलाभ्यां नृपोत्तम । कंबुग्रीवायुता सैव दिव्याभरणभूषिता
पीनोन्नतौ कुचौ तस्यास्तौ हेमकलशाविव । मध्यं क्षामं च चार्वंग्या मुष्टिग्राह्यमनुत्तमम्
नितंबौ विस्तृतौ चास्या विस्तीर्णा जघनस्थली । चरणौ शोभमानौ च रक्तोत्पलसमद्युती
ईदृश्या पुष्पवत्या स माल्यवानतिमोहितः । शक्रस्य परितोषाय नृत्यार्थं तौ समागतौ