ततः कालेन महता तापसी सुमहाव्रता । सदेहा स्वर्गमायाता व्रतचर्या प्रभावतः
मृत्पिंडिकाप्रदानेन गृहं प्राप्तं मनोरमम् । संजातं चैव विप्रर्षे धान्यराशि विवर्जितम्
गृहं यावन्निरीक्षेत न किंचित्तत्र पश्यति । तावद्गृहाद्विनिष्क्रांता ममांते चागता द्विज
क्रोधेन महताविष्टमिदं वचनमब्रवीत् । मया व्रतैश्च कृच्छ्रैश्च उपवासैरनेकशः
पूजयाराधितो देवः सर्वलोकस्य पालकः । न तत्र दृश्यते किंचिद्गृहे मम जनार्दन
ततश्चोक्तं मया तस्यै गृहं गच्छ महाव्रते । आगमिष्यंति सुतरां कौतूहल समन्विताः
देवपत्न्यो हि द्रष्टुं त्वां विस्मयाभिसमन्विताः । द्वारं नोद्घाटय विना षट्तिलापुण्यवाचनात्
एवमुक्ता मया सा तु गता वै मानुषी तदा । अत्रांतरे समायाता देवपत्न्यश्च वाडव
ताभिश्च कथितं तत्र त्वां द्रष्टुं हि समागताः । द्वारमुद्घाटयस्वाद्य त्वां प्रपश्याम शोभने
मानुष्युवाच- यदि मद्दर्शनं कार्यं सत्यं वाच्यं विशेषतः । षट्तिलाया व्रतं पुण्यं द्वारोद्घाटनकारणात्
श्रीकृष्ण उवाच-। एकापिनावदत्तत्र षट्तिलैकादशीव्रतम् । अन्यया कथितं तत्र द्रष्टव्या मानुषी मया
ततो द्वारं समुद्घाट्य दृष्टा ताभिश्च मानुषी । न देवी न च गंधर्वी नासुरी न च पन्नगी
दृष्टा पूर्वं तथा नारी यादृशीयं द्विजर्षभ । देवीनामुपदेशेन षट्तिलाया व्रतं कृतम्
मानुष्या सत्यव्रतया भुक्तिमुक्तिफलप्रदम् । रूपकांतिसमायुक्ता क्षणेन समवाप सा
धनं धान्यं च वस्त्रादि सुवर्णं रौप्यमेव च । भवनं सर्वसंपन्नं षट्तिलायाः प्रभावतः
रूपकांतिसमायुक्ता क्षणेन समपद्यत
अतितृष्णा न कर्त्तव्या वित्तशाठ्यं विवर्जयेत् । आत्मवित्तानुसारेण तिलान्वस्त्राणि दापयेत्
लभते चैवमारोग्यं नरो जन्मनि जन्मनि । न दारिद्र्यं न कष्टत्वं न च दौर्भाग्यमेव च 6.42.
संभवेद्वै द्विजश्रेष्ठ षट्तिलासमुपोषणात् । अनेन विधिना भूप तिलदाता न संशयः
मुच्यते पातकैः सर्वैरनायासेन मानवः । दानं च विधिवत्पात्रे सर्वपातकनाशनम् । नानर्थः कश्चिन्नायासः शरीरे नृपसत्तम
युधिष्ठिर उवाच- साधु कृष्ण त्वया प्रोक्तमादिदेवो भवान्प्रभो । स्वेदजा अंडजाश्चैव उद्भिज्जाश्च जरायुजाः
तेषां कर्त्ता विकर्त्ता त्वं पालकः क्षयकारकः । माघस्य कृष्णपक्षे तु षट्तिला कथिता त्वया
शुक्ले च का भवेद्देव कथयस्व प्रसादतः । किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते
श्रीकृष्ण उवाच- कथयिष्यामि राजेंद्र शुक्ले माघस्य या भवेत् । जया नामेति विख्याता सर्वपापहरा परा
पवित्रा पापहंत्री च कामदा मोक्षदा नृणाम् । ब्रह्महत्यापहंत्री च पिशाचत्वविनाशिनी
नैव तस्या व्रते चीर्णे प्रेतत्वं जायते नृणाम् । नातः परतरा काचित्पापघ्नी मोक्षदायिनी
एतस्मात्कारणाद्राजन्कर्त्तव्या सा प्रयत्नतः । श्रूयतां राजशार्दूल कथा पौराणिकी शुभा
पंकजे च पुराणेऽस्या महिमा कथितो मया । एकदा नाकलोके वै इंद्रो राज्यं चकार ह
देवास्तत्र सुखेनैव निवसंति मनोरमे । पीयूषपाननिरता अप्सरोगणसेविताः
नंदनं तु वनं तत्र पारिजातोपसेवितम् । रमयंति रमंतेऽत्र अप्सरोभिर्दिवौकसः