इंगुदी ककुभांश्चैव श्लेष्मातकनगांस्तथा । शल्लकान्करमर्दांश्च पाटलान्बदरानपि
अशोकांश्च पलाशांश्च शृगालाञ्शशकानपि । वनमार्जारमहिषान्शल्लकांश्चमरानपि
ददर्श भुजगान्राजा वल्मीकादर्द्धनिःसृतान् । तथा वनगजान् मत्तान् कलभैः सह संगतान्
यूथपांश्च चतुर्दंतान्करिणीयूथमध्यगान् । तान्दृष्ट्वा चिंतयामास आत्मनः स गजान्नृपः
तेषां स विचरन्मध्ये राजा शोभामवाप ह । महदाश्चर्यसंयुक्तं ददृशे विपिनं नृपः
मार्गे शिवारुतान्शृण्वन्नुलूकविरुतं तथा । तांस्तानृक्षमृगान्पश्यन्बभ्राम वनमध्यतः
एवं ददर्श गहनं नृपो मध्यगते रवौ । क्षुत्तृड्भ्यां पीडितो राजा इतश्चेतश्च धावति
नृपतिश्चिंतयामास संशुष्कगलकंधरः । मया तु किं कृतं कर्म प्राप्तं दुःखं यदीदृशम्
मया वै तोषिता देवा यज्ञैः पूजाभिरेव च । तथैव ब्राह्मणा दानैस्तोषिता मिष्टभोजनैः
प्रजाश्चैव सदा कालं पुत्रवत्पालिता भृशम् । कस्माद्दुःखं मया प्राप्तमीदृशं दारुणं महत्
इति चिंतापरो राजा जगामैवाग्रतो वनम् । सुकृतस्य प्रभावेन सरो दृष्टमनुत्तमम्
मीनसंस्पर्शमानं च पद्मैश्चापरशोभितम् । कारंडैश्चक्रवाकैश्च राजहंसैश्च शोभितम्
मकरैर्बहुभिर्मत्स्यैरन्यैर्जलचरैर्युतम् । समीपे सरसस्तस्य मुनीनामाश्रमान्बहून्
ददर्श राजा लक्ष्मीवान्शकुनैः शुभशंसिभिः । दक्षिणं प्रास्फुरन्नेत्रमथ सव्येतरः करः
प्रास्फुरन्नृपतेस्तस्य कथयञ्शोभनं फलम् । तस्य तीरे मुनीन्दृष्ट्वा कुर्वाणन्नैगमं जपम्
हर्षेण महताविष्टो बभूव नृपनंदनः । अवतीर्य हयात्तस्मान्मुनीनामग्रतः स्थितः
पृथक्पृथग्ववंदेऽसौ मुनींस्तान्शंसितव्रतान् । कृतांजलिपुटो भूत्वा दंडवच्च पुनः पुनः
प्रत्यूचुस्तेऽपि मुनयः प्रसन्ना नृपते वयम् । राजोवाच- के भवंतोऽत्र कथ्यंतां का चाख्या भवतामपि । किमर्थं संगता यूयं सत्यं वदत मेऽग्रतः
मुनय ऊचुः- विश्वेदेवा वयं राजन्स्नानार्थमिह चागताः । माघो निकटमायात एतस्मात्पंचमेऽहनि
अद्य चैकादशी राजन्पुत्रदा नाम नामतः । पुत्रं ददात्यसौ विष्णुः पुत्रदा कारिणां नृणाम्
राजोवाच- एष वै संशयो मह्यं पुत्रस्योत्पादने महान् । यदि तुष्टा भवंतो वै पुत्रं मे दीयतां तदा
मुनिरुवाच- अद्यैव दिवसे राजन्पुत्रदा नाम वर्तते । एकादशीति विख्यातं क्रियतां व्रतमुत्तमम्
अभिषेकात्ततोऽस्माकं केशवस्य प्रसादतः । अवश्यं तव राजेंद्र पुत्रप्राप्तिर्भविष्यति
इत्येवं वचनात्तेषां कृतं राज्ञा व्रतोत्तमम् । मुनीनामुपदेशेन पुत्रदा या विधानतः
द्वादश्यां पारणं कृत्वा मुनीन्नत्वा पुनः पुनः । आजगाम गृहं राजा राज्ञी गर्भमथादधौ 6.41.
पुत्रो जातः सूतिकाले तेजस्वी पुण्यकर्मणा । पितरं तोषयामास प्रजापालो बभूव सः
तस्माद्राजन्प्रकर्त्तव्यं पुत्रदा व्रतमुत्तमम् । लोकानां तु हितार्थाय तवाग्रे कथितं मया
एकचित्तास्तु ये मर्त्याः कुर्वंति पुत्रदा व्रतम् । पुत्रान्प्राप्येह लोके तु मृतास्ते स्वर्गगामिनः । पठनाच्छ्रवणाद्राजन्नग्निष्टोमफलं लभेत्
युधिष्ठिर उवाच- साधु कृष्ण जगन्नाथ आदिदेव जगत्पते । कथयस्व प्रसादेन कृपां कुरु ममोपरि
माघस्य कृष्णपक्षे तु का वा चैकादशी भवेत् । किं नाम को विधिस्तस्या एतद्विस्तरतो वद