विद्यावंतं यशस्वंतं करोति च नरं हरिः । शृणु राजन्प्रवक्ष्यामि कथां पापहरां पराम्
भद्रावत्यां पुरा ह्यासीत्पुर्यां राजा सुकेतुमान् । तस्य राज्ञस्तथाराज्ञी चंपका नाम वर्त्तते
पुत्रहीनेन राज्ञा च काले नीतो मनोरथैः । नैवात्मजं नृपो लेभे वंशकर्त्तारमेव च
तेनैव राज्ञा धर्मेण चिंतितं बहुकालतः । किं करोमि क्व गच्छामि सुतप्राप्तिः कथं भवेत्
न राष्ट्रे न पुरे सौख्यं लेभे राजा सुकेतुमान् । साध्व्य स्वकांतया सार्द्धं प्रत्यहं दुःखितोऽभवत्
तावुभौ दंपती नित्यं चिंताशोकपरायणौ । पितरोऽस्य जलं दत्तं कवोष्णमुपभुंजते
राज्ञः पश्चान्न पश्यामो योऽस्मान्संतर्पयिष्यति । इत्येवं संस्मरंतोऽस्य दुःखिताः पितरोऽभवन्
न बांधवा न मित्राणि नामात्याः सुहृदस्तथा । रोचयंत्यस्य भूपस्य न गजाश्वाः पदातयः
नैराश्यं भूपतेस्तस्य नित्यं मनसि वर्त्तते । नरस्य पुत्रहीनस्य नास्ति वै जन्मनः फलम्
अपुत्रस्य गृहं शून्यं हृदयं दुःखितं सदा । पितृदेवमनुष्याणां नानृणत्वं सुतं विना
तस्मात्सर्वप्रयत्नेन सुतमुत्पादयेन्नरः । इह लोके यशस्तेषां परलोके शुभा गतिः
येषां तु पुण्यकर्तॄणां पुत्रजन्मगृहे भवेत् । आयुरारोग्यसंपत्तिस्तेषां गेहे प्रवर्तते
पुत्रजन्म गृहे येषां लोकानां पुण्यकारिणाम् । पुण्यं विना न च प्राप्तिर्विष्णुभक्तिं विना नृप
पुत्राश्च संपदो वापि निश्चयादिति मे मतिः । एवं विचिंत्यमानोऽसौ न शर्म लभते नृपः
प्रत्यूषे चिंतयद्राजा निशीथे चिंतयत्ततः । स्वयमात्मविनाशं च चिंतयामास केतुमान्
आत्मघाते दुर्गतिं च चिंतयित्वा तदा नृपः । दृष्ट्वात्मदेहं पतितमपुत्रत्वं तथैव च
पुनर्विचार्यात्मबुद्ध्या आत्मनो हितकारणम् । अश्वारूढस्ततो राजा जगाम गहनं वनम्
पुरोहितादयः सर्वे न जानंति गतं नृपम् । गंभीरे विपिने राजा मृगपक्षिनिषेविते
विचचार तदा राजा वनवृक्षान्विलोकयन् । वटानश्वत्थबिल्वांश्च खर्जूरान्पनसांस्तथा
बकुलान्सप्तपर्णांश्च तिंदुकांस्तिलकानपि । शालांस्तालांस्तमालांश्च ददर्श सरलान्नृपः
इंगुदी ककुभांश्चैव श्लेष्मातकनगांस्तथा । शल्लकान्करमर्दांश्च पाटलान्बदरानपि
अशोकांश्च पलाशांश्च शृगालाञ्शशकानपि । वनमार्जारमहिषान्शल्लकांश्चमरानपि
ददर्श भुजगान्राजा वल्मीकादर्द्धनिःसृतान् । तथा वनगजान् मत्तान् कलभैः सह संगतान्
यूथपांश्च चतुर्दंतान्करिणीयूथमध्यगान् । तान्दृष्ट्वा चिंतयामास आत्मनः स गजान्नृपः
तेषां स विचरन्मध्ये राजा शोभामवाप ह । महदाश्चर्यसंयुक्तं ददृशे विपिनं नृपः
मार्गे शिवारुतान्शृण्वन्नुलूकविरुतं तथा । तांस्तानृक्षमृगान्पश्यन्बभ्राम वनमध्यतः
एवं ददर्श गहनं नृपो मध्यगते रवौ । क्षुत्तृड्भ्यां पीडितो राजा इतश्चेतश्च धावति
नृपतिश्चिंतयामास संशुष्कगलकंधरः । मया तु किं कृतं कर्म प्राप्तं दुःखं यदीदृशम्
मया वै तोषिता देवा यज्ञैः पूजाभिरेव च । तथैव ब्राह्मणा दानैस्तोषिता मिष्टभोजनैः
प्रजाश्चैव सदा कालं पुत्रवत्पालिता भृशम् । कस्माद्दुःखं मया प्राप्तमीदृशं दारुणं महत्