इतस्ततो विलोक्याथ व्यथितश्च तदासनात् । स्खलत्पद्भ्यां प्रचलितः खंजन्निव मुहुर्मुहुः
वनमध्ये गतस्तत्र क्षुत्क्षामः पीडितोऽभवत् । न शक्तिर्जीवघाते तु लुंपकस्य दुरात्मनः
फलानि च तदा राजन्नाजहार स लुंपकः । यावत्समागतस्तत्र तावदस्तं गतो रविः
किं भविष्यति तातेति स विलापं चकार ह । फलानि तत्र भूरीणि वृक्षमूले न्यवेशयत्
इत्युवाच फलैरेभिः श्रीपतिस्तुष्यतां हरिः । इत्युक्त्वा लुंपकश्चैव निद्रां लेभे न वै निशि
रात्रौ जागरणं मेने विष्णुस्तस्य दुरात्मनः । फलैस्तु पूजनं मेने सफलायास्तथानघ
अकस्माद्व्रतमेवैतत्कृतवान्वै स लुंपकः । तेन पुण्यप्रभावेन प्राप्तं राज्यमकंटकम्
सूर्यस्योदयनं यावत्तावद्विष्णुर्जगाम ह । दिवि तत्कालमुत्पन्ना वागुवाचाशरीरिणी
राज्यं प्राप्स्यसि पुत्रत्वं सफलायाः प्रसादतः। तथेत्युक्ते तु वचसि दिव्यरूपधरोऽभवत्
मतिरासीत्ततस्तस्य परमा वैष्णवी नृप । दिव्याभरणशोभाढ्यो लेभे राज्यमकंटकम्
कृतं राज्यं तु तेनैवं वर्षाणि दशपंच च । मनोदास्तस्यपुत्रास्तु दाराः कृष्णप्रसादतः
आशु राज्यं परित्यज्य पुत्रे चैव समर्प्य च । गतः कृष्णस्य सांनिध्यं यत्र गत्वा न शोचति
एवं यः कुरुते राजन्सफलाव्रतमुत्तमम् । इहलोके सुखं प्राप्य मृतो मोक्षमवाप्नुयात्
धन्यास्ते मानवा लोके सफलायां च ये रताः । तेषां च सफलं जन्म नात्र कार्या विचारणा
पठनाच्छ्रवणाच्चैव करणाच्च विशांपते । राजसूयस्य यज्ञस्य फलमाप्नोति मानवः
युधिष्ठिर उवाच- कथिता वै त्वया कृष्ण सफलैकादशी शुभा । कथयस्व प्रसादेन शुक्लपक्षस्य या भवेत्
किन्नाम को विधिस्तस्याः को देवस्तत्र पूज्यते । कस्मै तुष्टो हृषीकेशस्त्वमेव पुरुषोत्तमः
श्रीकृष्ण उवाच-। शृणु राजन्प्रवक्ष्यामि शुक्ला पौषस्य या भवेत् । कथयामि महाराज लोकानां हितकाम्यया
पूर्वेण विधिना राजन्कर्त्तव्यैषा प्रयत्नतः । पुत्रदा नाम नाम्ना सा सर्वपापहरा परा
नारायणोऽधिदेवोऽस्या कामदः सिद्धिदायकः । नातः परतरा काचित्त्रैलोक्ये सचराचरे
विद्यावंतं यशस्वंतं करोति च नरं हरिः । शृणु राजन्प्रवक्ष्यामि कथां पापहरां पराम्
भद्रावत्यां पुरा ह्यासीत्पुर्यां राजा सुकेतुमान् । तस्य राज्ञस्तथाराज्ञी चंपका नाम वर्त्तते
पुत्रहीनेन राज्ञा च काले नीतो मनोरथैः । नैवात्मजं नृपो लेभे वंशकर्त्तारमेव च
तेनैव राज्ञा धर्मेण चिंतितं बहुकालतः । किं करोमि क्व गच्छामि सुतप्राप्तिः कथं भवेत्
न राष्ट्रे न पुरे सौख्यं लेभे राजा सुकेतुमान् । साध्व्य स्वकांतया सार्द्धं प्रत्यहं दुःखितोऽभवत्
तावुभौ दंपती नित्यं चिंताशोकपरायणौ । पितरोऽस्य जलं दत्तं कवोष्णमुपभुंजते
राज्ञः पश्चान्न पश्यामो योऽस्मान्संतर्पयिष्यति । इत्येवं संस्मरंतोऽस्य दुःखिताः पितरोऽभवन्
न बांधवा न मित्राणि नामात्याः सुहृदस्तथा । रोचयंत्यस्य भूपस्य न गजाश्वाः पदातयः
नैराश्यं भूपतेस्तस्य नित्यं मनसि वर्त्तते । नरस्य पुत्रहीनस्य नास्ति वै जन्मनः फलम्
अपुत्रस्य गृहं शून्यं हृदयं दुःखितं सदा । पितृदेवमनुष्याणां नानृणत्वं सुतं विना