तस्यां नारायणं देवं पूजयेच्च यथाविधि । पूर्वेणैव विधानेन कर्त्तव्यैकादशी शुभा
नागानां च यथा शेषो पक्षिणां पन्नगाशनः । देवानां च यथा विष्णुर्द्विपदानां यथा द्विजः
व्रतानां च यथा राजन्श्रेष्ठा चैकादशी तिथिः । ते जनाश्चैव भो राजन्पूज्या वै सर्वदा मम
हरिवासरसंलीनाः कुर्वंत्येकादशीव्रतम् । इहैव धनसंयुक्ता मृता मोक्षं लभंति ते
सफलायां फलै राजन्पूजयेन्नामतो हरिम् । नारिकेलफलैश्चैव क्रमुकैर्बीजपूरकैः
जंबीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः । लवंगैर्बदरीभिश्च तथाम्रैश्च विशेषतः
पूजयेद्देवदेवेशं धूपदीपैस्तथैव च । सफलायां विशेषेण दीपदानं तु कारयेत्
रात्रौ जागरणं चैव कर्त्तव्यं सह वैष्णवैः । यावन्निमेषो नेत्रस्य तावज्जागर्ति यो निशि
एकाग्रमनसो राजन्तस्य पुण्यं शृणुष्व हि । तत्समो नास्ति यज्ञो वै तीर्थं वा तत्समं नहि
सर्वव्रतानि राजेंद्र कलां नार्हंति षोडशीम् । एवं वर्षसहस्राणि तपसा नैव यत्फलम्
तत्फलं समवाप्नोति यः करोति हि जागरम् । श्रूयतां राजशार्दूल सफलायाः कथा शुभा
चंपावतीति विख्याता पुरी माहिष्मतस्य च । बभूवुस्तस्य राजर्षेः पुत्राः पंच कुमारकाः
तेषां मध्ये तु ज्येष्ठो वै महापापरतः सदा । परदाराभिचारी च वेश्यासक्तश्च मद्यपः
पितुर्द्रव्यं तु तेनैव गमितं पापकर्मणा । असद्वृत्तिरतो नित्यं भूसुराणां तु निंदकः
वैष्णवानां च देवानां नित्यं निंदां करोति सः । ईदृशं तु ततो दृष्ट्वा पुत्रं माहिष्मतो नृपः
नाम्ना तु लुंपक इति राजपुत्रेषु चापठत् । राज्यान्निष्कासितस्तेन पित्रा चैव तु बंधुभिः
स चैवं परिवारैस्तु त्यक्तश्च परिपंथिवत् । लुंपकोऽपि तथा त्यक्तश्चिंतयामास वै तदा
त्यक्तोऽहं बांधवैः पित्रा राज्यान्निष्कासितः किल । इति संचिंत्यमानोऽसौ मतिं पापे तदाकरोत्
मया गंतव्यमेवास्तु दारुणे गहने वने । तस्माच्चैव पुरं सर्वं लुंपयिष्यामि वै पितुः
इत्येवं स मतिं कृत्वा लुंपको दैवयोगतः । निर्जगाम पुरात्तस्माद्गतोऽसौ गहने वने
जीवघातरतो नित्यं स्तेयद्यूतकलानिधिः । सर्वं च नगरं तेन मुषितं पापकर्मणा
स्तेयाभिगामी नगरे गृहीतः स निशाचरैः । उवाच तान्सुतोऽहं वै राज्ञो माहिष्मतस्य च
स तैर्मुक्तः पापकर्मा चागतो विपिनं पुनः । आमिषाभिरतो नित्यं तरोर्वै फलभक्षणे
आश्रमस्तस्य दुष्टस्य वासुदेवस्य संनिधौ । अश्वत्थो वर्त्तते तत्र जीर्णश्च बहुवार्षिकः
देवत्वं तस्य वृक्षस्य विपिने वर्तते महत् । तत्रैव निवसंश्चैव लुंपकः पापबुद्धिमान्
गते बहुतिथे काले कस्यचित्पुण्यसंचयात् । पौषस्य कृष्णपक्षे तु दशम्यां दिवसे तथा
फलानि भुक्त्वा वृक्षाणां रात्रौ शीतेन पीडितः । लुंपको नाम पापिष्ठो वस्त्रहीनो गतेक्षणः
पीड्यमानोऽतिशीतेन हरिवृक्षसमीपतः । न निद्रा न सुखं तस्य गतप्राण इवाभवत्
आछाद्य दशनैरास्यमेवं नीता निशाखिला । भानूदयेऽपि पापिष्ठो न लेभे चेतनां तदा
लुंपको गतसंज्ञस्तु सफलाया दिने तथा । रवौ मध्यंगते चैव संज्ञां लेभे स लुंपकः