मुनेर्वाक्येन तत्कृत्वा व्रतं वैखानसो नृपः । अददत्पुण्यमखिलैः सार्द्धं पित्रे स भूमिपः
दत्ते पुण्यक्षणेनैव पुष्पवृष्टिरभूद्दिवि । वैखानसस्य तातो वै पितृभिर्मोक्षमाविशत्
राजानं चांतरिक्षे स गिरं पुण्यामुवाच ह । स्वस्तिस्वस्तीति ते पुत्र प्रोच्य चैवं दिवं गतः
एवं यः कुरुते राजन्मोक्षामेकादशीं शुभाम् । तस्य पापानि नश्यंति मृतो मोक्षमवाप्नुयात्
नातः परतरा काचित्मोक्षदैकादशी भवेत् । पुण्यसंख्यां न जानामि राजन्मे प्रियकृद्व्रतम्
चिंतामणिसमा ह्येषा नृणां मोक्षप्रदायिनी । पठनाच्छ्रवणादस्या वाजपेयफलं लभेत्
युधिष्ठिर उवाच- पौषस्य कृष्णपक्षे तु किं नामैकादशी भवेत् । किं नाम को विधिस्तस्या एतद्विस्तरतो वद । एतदाख्याहि भो स्वामिन्को देवस्तत्र पूज्यते
श्रीकृष्ण उवाच- कथयिष्यामि राजेंद्र भवतः स्नेहबंधनात् । तुष्टिर्मे न तथा राजन्यज्ञैर्बहुलदक्षिणैः
यथा मे तुष्टिरायाति ह्येकादशीव्रतेन वै । तस्मात्सर्वप्रयत्नेन कर्त्तव्यो हरिवासरः
सत्यमेतन्न वै मिथ्या धर्मिष्ठानां विशारद । पौषस्य कृष्णपक्षे या सफला नाम नामतः
तस्यां नारायणं देवं पूजयेच्च यथाविधि । पूर्वेणैव विधानेन कर्त्तव्यैकादशी शुभा
नागानां च यथा शेषो पक्षिणां पन्नगाशनः । देवानां च यथा विष्णुर्द्विपदानां यथा द्विजः
व्रतानां च यथा राजन्श्रेष्ठा चैकादशी तिथिः । ते जनाश्चैव भो राजन्पूज्या वै सर्वदा मम
हरिवासरसंलीनाः कुर्वंत्येकादशीव्रतम् । इहैव धनसंयुक्ता मृता मोक्षं लभंति ते
सफलायां फलै राजन्पूजयेन्नामतो हरिम् । नारिकेलफलैश्चैव क्रमुकैर्बीजपूरकैः
जंबीरैर्दाडिमैश्चैव तथा धात्रीफलैः शुभैः । लवंगैर्बदरीभिश्च तथाम्रैश्च विशेषतः
पूजयेद्देवदेवेशं धूपदीपैस्तथैव च । सफलायां विशेषेण दीपदानं तु कारयेत्
रात्रौ जागरणं चैव कर्त्तव्यं सह वैष्णवैः । यावन्निमेषो नेत्रस्य तावज्जागर्ति यो निशि
एकाग्रमनसो राजन्तस्य पुण्यं शृणुष्व हि । तत्समो नास्ति यज्ञो वै तीर्थं वा तत्समं नहि
सर्वव्रतानि राजेंद्र कलां नार्हंति षोडशीम् । एवं वर्षसहस्राणि तपसा नैव यत्फलम्
तत्फलं समवाप्नोति यः करोति हि जागरम् । श्रूयतां राजशार्दूल सफलायाः कथा शुभा
चंपावतीति विख्याता पुरी माहिष्मतस्य च । बभूवुस्तस्य राजर्षेः पुत्राः पंच कुमारकाः
तेषां मध्ये तु ज्येष्ठो वै महापापरतः सदा । परदाराभिचारी च वेश्यासक्तश्च मद्यपः
पितुर्द्रव्यं तु तेनैव गमितं पापकर्मणा । असद्वृत्तिरतो नित्यं भूसुराणां तु निंदकः
वैष्णवानां च देवानां नित्यं निंदां करोति सः । ईदृशं तु ततो दृष्ट्वा पुत्रं माहिष्मतो नृपः
नाम्ना तु लुंपक इति राजपुत्रेषु चापठत् । राज्यान्निष्कासितस्तेन पित्रा चैव तु बंधुभिः
स चैवं परिवारैस्तु त्यक्तश्च परिपंथिवत् । लुंपकोऽपि तथा त्यक्तश्चिंतयामास वै तदा
त्यक्तोऽहं बांधवैः पित्रा राज्यान्निष्कासितः किल । इति संचिंत्यमानोऽसौ मतिं पापे तदाकरोत्
मया गंतव्यमेवास्तु दारुणे गहने वने । तस्माच्चैव पुरं सर्वं लुंपयिष्यामि वै पितुः
इत्येवं स मतिं कृत्वा लुंपको दैवयोगतः । निर्जगाम पुरात्तस्माद्गतोऽसौ गहने वने