शृणु राजन्प्रवक्ष्यामि दिव्यां पौराणिकीकथाम् । यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत्
अधोयोनिगतश्चैव पितरो यस्य पापतः । अस्याश्च पुण्यदानेन मोक्षं यांति न संशयः
चंपके नगरे रम्ये वैष्णवैश्च विभूषिते । वैखानसो नाम नृपः पुत्रवत्पालयेत्प्रजाः
वसंति बहवो विप्रा वेदवेदांगपारगाः । ऋद्धिमत्यः प्रजास्तस्य राज्ञो वैखानसस्य हि
एवं राज्यं प्रकुर्वाणो रात्रौ स्वप्नस्य मध्यतः । स्वकीयपितरो दृष्ट्वा अधोयोनिगता नृप
एवं दृष्ट्वा च तान्सर्वान्विस्मयाविष्टमानसः । कथयामास वृत्तांतं स्वप्नजातं द्विजान्प्रति
राजोवाच- मया स्वपितरो दृष्ट्वा नरकोपगता द्विजाः । तारयेति तनूजत्वमस्मान्निरयसागरात्
एवं ब्रुवाणास्ते नूनं रोदमाना मुहुर्मुहुः । मया दृष्टा द्विजश्रेष्ठा एतस्माच्च न मे सुखम्
एतद्राज्यं मम महत्सुखदायि न विद्यते । अश्वा गजास्तथा सर्वे रोचंते मे न भो द्विजाः
न दारा न सुता मह्यं रोचंते द्विजसत्तमाः । किं करोमि क्व गच्छामि हृदयं मेऽवरुध्यते
तद्व्रतं तं तपोयोगं येनैव मम पूर्वजाः । मोक्षं प्रयांति सद्यो वै कथ्यतां च द्विजोत्तमाः
पुत्रे तु जीवितप्राये बलीयसि महात्मनि । पितास्ति नरके घोरे तस्य पुत्रस्य किं फलम्
ब्राह्मणा ऊचुः - पर्वतस्य मुने राजन्निकटे चाश्रमो महान् । गम्यतां राजशार्दूल भूतं भव्यं विजानतः
तेषां श्रुत्वा ततो वाक्यं राजा वैखानसो महान् । जगाम चाशु तत्रैव चाश्रमं पर्वतस्य च
ब्राह्मणैर्वेष्टितो राजा राजभिश्च समन्वितः । आश्रमं विपुलं तस्य संप्राप्तो राजसत्तमः
तत्रर्ग्वेद यजुर्वेद सामाध्ययनकोविदैः । वेष्टितं मुनिभिश्चैव द्वितीयं ब्रह्मणो यथा
दृष्ट्वा तं मुनिशार्दूलं राजा वैखानसस्तथा । दंडवत्प्रणतिं कृत्वा पस्पर्श चरणौ मुनेः
पप्रच्छ कुशलं तस्य सप्तस्वंगेष्वसौ मुनिः । राज्ये निष्कंटकत्वं च राज्ञः सौख्यसमन्वितम्
राजोवाच - तव प्रसादाद्भो स्वामिन्कुशलं मेऽङ्गसप्तसु । भक्ता ये विष्णुविप्रेषु कथं तेषां च विघ्नता
मया स्वपितरो दृष्टाः स्वप्ने च नरके स्थिताः । कस्य पुण्यस्य सामर्थ्यान्मोक्षं यांति द्विजोत्तम
अयं मे संशयः स्वामिन्प्रष्टुं तं त्वामुपागतः । उपायः कश्चिदेवात्र कर्तव्यो मुनिसत्तम
एतद्वाक्यं ततः श्रुत्वा पर्वतो मुनिसत्तमः । ध्यानस्तिमितनेत्रोऽभूत्तपस्वी ब्रह्मसंनिभः
मुहूर्तमेकं ध्यानस्थो भूपतिं प्रत्युवाच ह । ज्ञातं हि तव राजेंद्र पितॄणां पूर्वचेष्टितम्
पूर्वजन्मनि तातस्ते क्षत्रियो राज्यगर्वितः । सपत्न्या ऋतुकाले तु राजधर्मप्रवर्तितः
गतो ग्रामे तु तां त्यक्त्वा कार्यार्थी निजयोषितम् । तव पित्रा तु तस्याश्च न दत्तमृतुदानकम्
तेन पापप्रभावेन नरके पितृभिः सह । पतितो राजशार्दूल तव तातः सुदारुणे
ततः पुनरुवाचेदं राजा वैखानसो मुनिम् । केन व्रतप्रभावेन मोक्षस्तेषां भवेन्मुने
मुनिरुवाच- मार्गशीर्षे सिते पक्षे मोक्षा नामेति नामतः । सर्वैश्चेतद्व्रतं कार्यं पित्रे पुण्यं प्रदीयताम्
तेन पुण्यप्रभावेन मोक्षस्तेषां भविष्यति । सत्यमेतन्महाभाग ब्रह्मणो वचनं यथा
मुनेर्वाक्यं ततः श्रुत्वा स्वगृहं पुनरागतः । मार्गशीर्षस्तथा मासः प्राप्तः कष्टेन तेन वै