पृच्छामि देवदेवेश संशयोऽस्ति महान्मम । लोकानां च हितार्थाय पापानां क्षयहेतवे
मार्गशीर्षेसिते पक्षे भवेदेकादशी तु या । किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते । एतदाचक्ष्व मे स्वामिन्विस्तरेण यथातथम्
श्रीकृष्ण उवाच- साधु पृष्टं त्वया राजन्साधु ते विमलं यशः । कथयिष्यामि राजेंद्र हरिवासरमुत्तमम्
उत्पन्ना चासिते पक्षे द्वादशी मम वल्लभा । मार्गशीर्षोत्पत्तिरिति मम देह समुद्भवा
सुरासुरवधार्थाय ह्युत्पन्ना भरतर्षभ । कथिता च मया सा वै तवाग्रे राजसत्तम
पूर्वा चैकादशी राजंस्त्रैलोक्ये सचराचरे । मार्गशीर्षे सिते पक्षे उत्पत्तिरिति नामतः
अतः परं प्रवक्ष्यामि मार्गशीर्षे सिता तु या । यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्
मोक्षा नामेति सा प्रोक्ता सर्वपापहरा परा । देवं दामोदरं राजन्पूजयेच्च प्रयत्नतः
तुलस्या मंजरीभिश्च धूपैर्दीपैः प्रयत्नतः । पूर्वेण विधिना चैव दशम्येकादशी तथा
मोक्षा चैकादशी नाम्ना महापातकनाशिनी । रात्रौ जागरणं कार्यं नृत्यगीतस्तवैर्मम
शृणु राजन्प्रवक्ष्यामि दिव्यां पौराणिकीकथाम् । यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत्
अधोयोनिगतश्चैव पितरो यस्य पापतः । अस्याश्च पुण्यदानेन मोक्षं यांति न संशयः
चंपके नगरे रम्ये वैष्णवैश्च विभूषिते । वैखानसो नाम नृपः पुत्रवत्पालयेत्प्रजाः
वसंति बहवो विप्रा वेदवेदांगपारगाः । ऋद्धिमत्यः प्रजास्तस्य राज्ञो वैखानसस्य हि
एवं राज्यं प्रकुर्वाणो रात्रौ स्वप्नस्य मध्यतः । स्वकीयपितरो दृष्ट्वा अधोयोनिगता नृप
एवं दृष्ट्वा च तान्सर्वान्विस्मयाविष्टमानसः । कथयामास वृत्तांतं स्वप्नजातं द्विजान्प्रति
राजोवाच- मया स्वपितरो दृष्ट्वा नरकोपगता द्विजाः । तारयेति तनूजत्वमस्मान्निरयसागरात्
एवं ब्रुवाणास्ते नूनं रोदमाना मुहुर्मुहुः । मया दृष्टा द्विजश्रेष्ठा एतस्माच्च न मे सुखम्
एतद्राज्यं मम महत्सुखदायि न विद्यते । अश्वा गजास्तथा सर्वे रोचंते मे न भो द्विजाः
न दारा न सुता मह्यं रोचंते द्विजसत्तमाः । किं करोमि क्व गच्छामि हृदयं मेऽवरुध्यते
तद्व्रतं तं तपोयोगं येनैव मम पूर्वजाः । मोक्षं प्रयांति सद्यो वै कथ्यतां च द्विजोत्तमाः
पुत्रे तु जीवितप्राये बलीयसि महात्मनि । पितास्ति नरके घोरे तस्य पुत्रस्य किं फलम्
ब्राह्मणा ऊचुः - पर्वतस्य मुने राजन्निकटे चाश्रमो महान् । गम्यतां राजशार्दूल भूतं भव्यं विजानतः
तेषां श्रुत्वा ततो वाक्यं राजा वैखानसो महान् । जगाम चाशु तत्रैव चाश्रमं पर्वतस्य च
ब्राह्मणैर्वेष्टितो राजा राजभिश्च समन्वितः । आश्रमं विपुलं तस्य संप्राप्तो राजसत्तमः
तत्रर्ग्वेद यजुर्वेद सामाध्ययनकोविदैः । वेष्टितं मुनिभिश्चैव द्वितीयं ब्रह्मणो यथा
दृष्ट्वा तं मुनिशार्दूलं राजा वैखानसस्तथा । दंडवत्प्रणतिं कृत्वा पस्पर्श चरणौ मुनेः
पप्रच्छ कुशलं तस्य सप्तस्वंगेष्वसौ मुनिः । राज्ये निष्कंटकत्वं च राज्ञः सौख्यसमन्वितम्
राजोवाच - तव प्रसादाद्भो स्वामिन्कुशलं मेऽङ्गसप्तसु । भक्ता ये विष्णुविप्रेषु कथं तेषां च विघ्नता
मया स्वपितरो दृष्टाः स्वप्ने च नरके स्थिताः । कस्य पुण्यस्य सामर्थ्यान्मोक्षं यांति द्विजोत्तम