मामुपोष्यंति ये भक्त्या तव भक्त्या जनार्दन । सर्वसिद्धिर्भवेत्तेषां यदि तुष्टोऽसि मे प्रभो 6.38.
उपवासं च नक्तं च एकभक्तं करोति च । तस्य वित्तं च धर्मं च मोक्षं वै देहि माधव
विष्णुरुवाच-। यत्त्वं वदसि कल्याणि तत्सर्वं च भविष्यति । सर्वान्मनोरथान्भद्रे दास्यसि त्वं च नान्यथा
मम भक्ताश्च ये लोके ये च भक्तास्तु कार्त्तिके । चतुर्युगेषु विख्यातास्त्रिषु लोकेषु वै प्रभो
त्वां च शक्तिमहं मन्ये एकादशीव्रतस्थिताः । मम पूजां करिष्यंति मोक्षगास्ते न संशयः
तृतीया चाष्टमी चैव नवमी च चतुर्दशी । एकादशी विशेषेण तिथिरेषा हरिप्रिया । सर्वतीर्थाधिकं पुण्यं सत्यं सत्यं न संशयः
इदं दत्त्वा वरं तस्यै तिस्रो वाचो न संशयः । हृष्टा पुष्टा च संजाता एकादशीमहाव्रता
शत्रुं हंसि परां तस्य ददासि परमां गतिम् । त्वं हंसि सर्वविघ्नानि सर्वसिद्धिवरप्रदा
उभयोः पक्षयोः पार्थ तुल्या एकादशी शुभा । न शुक्ला नैव कृष्णा च विभेदं नैव कारयेत्
विभेदो नैव कर्त्तव्यः समस्तव्रतकारिभिः । दिवा वा यदि वा रात्रौ शृणोति भक्तितत्परः
तिथिरेका भवेत्सर्वा पक्षयोरुभयोरपि । उभयैकादशी स्वल्पा ह्यंते चैव त्रयोदशी
मध्ये तु द्वादशी पूर्णा त्रिस्पृशा सा हरिप्रिया । एकामुपोषयेत्तां वै सहस्रैकादशीफलम्
सहस्रगुणितं ह्येवं द्वादश्यां पारणे कृते । अष्टम्येकादशी षष्ठी तृतीया च चतुर्दशी
पूर्वविद्धा न कर्तव्या परविद्धामुपोषयेत् । एकादशी ह्यहोरात्रं प्रभाते घटिका भवेत्
सा तिथिः परिहर्तव्या उपोष्या द्वादशीयुता । एवंविधा मया प्रोक्ता पक्षयोरुभयोरपि
एकादश्यां प्रकुर्वीत ह्युपवासं न संशयः । ते यांति वैष्णवं स्थानं यत्रास्ते गरुडध्वजः
धन्यास्ते मानवा लोके विष्णुभक्तिपरायणाः । एकादश्याश्च माहात्म्यं सर्वकालेषु यः पठेत्
गोसहस्रफलं सोऽपि पुण्यं प्राप्नोति मानवः । दिवा वा यदि वा रात्रौ ये वै शृण्वंति भक्तितः
ब्रह्महत्यादिपापेभ्यो मुच्यंते नात्र संशयः । विष्णुधर्मसमं नास्ति गीतार्थं च नृपोत्तम । एकादशीसमं नास्ति व्रतं पापप्रणाशनम्
युधिष्ठिर उवाच- वंदे विष्णुं विभुं साक्षाल्लोकत्रयसुखावहम् । विश्वेशं विश्वकर्तारं पुराणं पुरुषोत्तमम्
पृच्छामि देवदेवेश संशयोऽस्ति महान्मम । लोकानां च हितार्थाय पापानां क्षयहेतवे
मार्गशीर्षेसिते पक्षे भवेदेकादशी तु या । किं नाम को विधिस्तस्याः को देवस्तत्र पूज्यते । एतदाचक्ष्व मे स्वामिन्विस्तरेण यथातथम्
श्रीकृष्ण उवाच- साधु पृष्टं त्वया राजन्साधु ते विमलं यशः । कथयिष्यामि राजेंद्र हरिवासरमुत्तमम्
उत्पन्ना चासिते पक्षे द्वादशी मम वल्लभा । मार्गशीर्षोत्पत्तिरिति मम देह समुद्भवा
सुरासुरवधार्थाय ह्युत्पन्ना भरतर्षभ । कथिता च मया सा वै तवाग्रे राजसत्तम
पूर्वा चैकादशी राजंस्त्रैलोक्ये सचराचरे । मार्गशीर्षे सिते पक्षे उत्पत्तिरिति नामतः
अतः परं प्रवक्ष्यामि मार्गशीर्षे सिता तु या । यस्याः श्रवणमात्रेण वाजपेयफलं लभेत्
मोक्षा नामेति सा प्रोक्ता सर्वपापहरा परा । देवं दामोदरं राजन्पूजयेच्च प्रयत्नतः
तुलस्या मंजरीभिश्च धूपैर्दीपैः प्रयत्नतः । पूर्वेण विधिना चैव दशम्येकादशी तथा
मोक्षा चैकादशी नाम्ना महापातकनाशिनी । रात्रौ जागरणं कार्यं नृत्यगीतस्तवैर्मम