नित्यं गृह्णाति विप्रेंद्र यो धात्रीफलकर्द्दमम् । दिने दिने लभेत्पुण्यं संप्राप्नोति न संशयः
धात्रीतरुं च यो हंति सर्वदेवगणाश्रयम् । स ददाति हरेरंगे घातं नास्त्यत्र संशयः
सर्वदेवमयी धात्री विशेषात्केशवप्रिया । सम्यग्वक्तुं गुणं तस्या ब्रह्मणापि न शक्यते
धात्र्यास्तुलस्या विदधाति भक्तिं यो मानवो ज्ञातसमस्ततत्वः । भुक्त्वा च भोगान्सकलां स्ततोंऽते स मुक्तिमाप्नोति हरेः प्रसादात्
जैमिनिरुवाच- भूय एव महाभाग तुलस्याः पापनाशनम् । अतिथेः पूजनस्यापि माहात्म्यं ब्रूहि विस्तरात्
सूत उवाच- ततो व्यासो महातेजास्तुलस्या द्विजसत्तम । माहात्म्यं वक्तुमारेभे शृण्वतां पापनाशनम्
व्यास उवाच- इयं साक्षान्महालक्ष्मीस्तुलसी भगवत्प्रिया । तस्मादिमां न पश्यंति वृक्षज्ञानेन जैमिने
सदैव तुलसीं मर्त्यो यथैव भुवि सेवते । तथैव सेन्द्रा विबुधाः सेवंते तं सुरालये
परब्रह्मस्वरूपेयं तुलसी यत्र तिष्ठति । तत्रैव कुशलं सर्वं सुदृढं प्रोच्यते मया
प्राप्नोति मृत्युकाले यस्तोयं पातकवानपि । तुलसीपत्रगलितं स याति हरिसन्निधिम्
तुलसीमृत्तिकापुण्ड्रं यो मृत्युसमये वहेत् । स मुक्तः सकलैः पापैः पुरं गच्छति चक्रिणः
यस्य स्यात्तुलसीपत्रं मुखे शिरसि कर्णयोः । मृत्युकाले द्विजश्रेष्ठ तस्य स्वामी न भास्करिः
पवित्रनामा सुमतिर्बभूव परमार्थवित् । बभूव ब्राह्मणी तस्य बहुला नाम धारिणी
सद्वंशप्रभवा साध्वी पतिसेवापरायणा । अनपत्यपतिर्नाम तत्रैकोस्ति द्विजोत्तमः
सख्यं तेन पवित्रोऽसौ चकार द्विजसेविना । ततोऽनपत्यपतिना कथालोभेन सत्तमः
उपविष्टः पवित्रोऽसौ स्नेहादेकवरासने । तत्रांतरे महातेजा लोमशो नाम स द्विजः
कथयंतौ कथाश्चित्राः समागत्य ददर्श तौ । अथ तं लोमशं विप्रं विप्रावुत्थाय पीठतः
पाद्यार्घ्याचमनीयाद्यैः पूजयामासतुश्च तौ । सुप्रीतो लोमशस्ताभ्यां नारायणपरायणः
उवास ब्राह्मणश्रेष्ठ आसने कीर्तयन्हरिम् । आसनस्थं महात्मानं लोमशं तं कृताञ्जलिम्
पवित्रानापत्यमुनी भक्त्या प्राहतुर्लोमशम् । भगवन्सर्वधर्मज्ञ त्वत्पादयुगलैर्नृभिः
सद्भिर्ग्राह्यैराश्रमोऽयं पूतोऽभून्नूनमावयोः । कृतानि यानि पापानि आवाभ्यां मोहतः पुरा
तानि सर्वाणि नष्टानि त्वत्पादयुगदर्शनात् । भवान्नारायणः साक्षात्पूजनीयोऽमरैरपि
सम्यक्ते पूजनं कर्तुं किमावां मानुषौ क्षमौ । अतिथेर्या कृता पूजा तेऽस्माभिर्निजशक्तितः
अनया भव सुप्रीतः क्षमस्व दोषमावयोः । इत्युक्त्वा तौ महात्मानौ तस्यागंतोः पदद्वये । निपेततुर्द्विजश्रेष्ठ वयस्यौ गृहमेधिनौ
व्यास उवाच- ततो भक्त्या सुसंतुष्टो लोमशो विदुषांवरः । युवां विनयिनां श्रेष्ठौ द्विजाग्र्यौ धर्मतत्परौ
आप्यायितोऽस्मि सुतरां युवयोर्विनयोक्तिभिः । साक्षाद्ब्रह्मा शिवो विष्णुरतिथिः प्रोच्यते बुधैः
तस्मिन्नेतावतीभक्तिर्युवयोरस्तु मङ्गलम् । आराधितोऽस्म्यहंसम्यगतिथिर्भूरिभोजनैः
व्यास उवाच- तत उत्थाय तौ विप्रौ तत्पादकमलद्वये । भूयोऽपि तं नमस्कृत्य प्राहतुर्लोमशं मुनिम्
ब्राह्मणावूचतुः ब्रह्मन्नतिथिपूजाया माहात्म्यं वक्तुमर्हसि । यां कृत्वा प्राप्यते मुक्तिर्दुःखलभ्यापि मानवैः
कोऽतिथिः प्रोच्यते लोके तस्य पूजा च कीदृशी । आतिथेयोऽतिथिश्चेमौ लभेते कामुभौ गतिम्