अत ऊर्ध्वं यथेष्टं तु कारयेच्च यथाविधि । यदा तु द्वादशी स्वल्पा पारणेन भवेद्दिवज
तदा रात्रौ तु कर्त्तव्यं पारणं मुक्तिमिच्छता । तदा न रात्रिदोषः स्यान्निषिद्धं न भवेत्क्वचित्
यदुक्तं निशि न स्नायान्महानिशि न भोजयेत् । तत्पूर्वपरयामाभ्यां दिनवत्कर्म कारयेत्
यदा भवति स्वल्पा तु द्वादशी पारणे दिने । उषःकाले द्वयं कुर्यात्प्रातर्मध्याह्निकं तथा
द्वादशी साधिता येन नरेण भुवि सर्वदा । तस्य पुण्यमहं वक्तुं न समर्थो विशेषतः
साधयित्वाखिलान्कामान्प्राप्नुयुश्च महाजनाः । अंबरीषादयः सर्वे ये भक्ता भुवि विश्रुताः
द्वादशीं साधयित्वा तु ते गता विष्णुसद्मनि । सत्यं सत्यं पुनः सत्यं यदुक्तं तु मया तव
नास्ति विष्णुसमो देवो न तिथिर्द्वादशीसमा । अत्र दत्तं च भुक्तं च तथा पूजादिकं च यत्
तत्सर्वं पूर्णतां याति पूजिते माधवे सति । किं पुनर्बहुनोक्तेन भक्तानां वल्लभो हरिः
प्रददात्यखिलान्कामान्यावदाभूतसंप्लवम् । द्वादश्यां चैव यद्दत्तं तत्सर्वं सफलं भवेत्
कुरुक्षेत्रेषु यद्दत्तं निष्फलं नैव जायते । तद्वच्च द्वादशीदत्तं भवेद्देवर्षिसत्तम
महादेव उवाच- एकस्मिन्समये पुत्र गतोऽहं विष्णुसन्निधौ । तत्र पृष्टं मया पूर्वं माहात्म्यं द्वादशीभवम्
नारद उवाच कीदृशी स्यान्महादेव महाद्वादशिका परा । तस्या व्रते फलं कीदृग्वद सर्वेश्वर प्रभो
शिव उवाच- इयमेकादशी ब्रह्मन्महापुण्यफलप्रदा । ऋक्षयोगैश्च संयुक्ता कर्त्तव्या मुनिसत्तमैः
जया च विजया चैव जयंती पापनाशिनी । सर्वपापहराश्चैताः कर्त्तव्याः फलकांक्षिभिः
एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसुः । नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः
तामुपोष्य नरः पापान्मुच्यते नात्र संशयः । यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत्
विजया सा समाख्याता तिथीनामुत्तमा तिथिः । सहस्रगुणितं दानं यस्यां वै विप्र भोजनम्
होमस्तथोपवासश्च सहस्राधिफलप्रदः । यदा च शुक्लद्वादश्यां प्राजापत्यं हि जायते
जयंती नाम सा प्रोक्ता सर्वपापहरा तिथिः । सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु
प्रक्षालयति गोविंदस्तस्यामभ्यर्चितो ध्रुवम् । यदा वै शुक्लद्वादश्यां पुष्यं भवति कर्हिचित्
तदा तु सा महापुण्या भविता पापनाशिनी । यो ददाति तिलप्रस्थं नित्यं संवत्सरं प्रति
उपवासं च यस्तस्यां करोत्येतत्समं स्मृतम् । तस्यां जगत्पतिर्देवस्तुष्टः सर्वेश्वरो हरिः
प्रत्यक्षतां प्रयात्येव तत्रानंतफलं स्मृतम् । सगरेण ककुत्स्थेन नहुषेण च साधितः
तस्यामाराधितः कृष्णो दत्तवानखिलं भुवि । वाचिकान्मानसाद्वापि कायजाच्च विशेषतः
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः । तामेकां समुपोष्याथ पुण्यनक्षत्रसंयुताम्
एकादशीसहस्रस्य फलं प्राप्नोति मानवः । स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम्
यत्तस्यां क्रियते किंचित्तदक्षयफलं स्मृतम् । तस्मादेषा प्रकर्तव्या यत्नेन फलकांक्षिभिः
पंचमेनाश्वमेधेन यदि स्नातो युधिष्ठिरः । पर्यपृच्छत धर्मात्मा कृष्णं यदुकुलोद्वहम्
युधिष्ठिर उवाच- उपवासस्य नक्तस्य त्वेकभुक्तस्य मे प्रभो । किं पुण्यं किं फलं तस्य ब्रूहि सर्वं जनार्दन