एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः । एकतो देवदेवस्य जागरः कृष्णवल्लभः
तत्र काशी पुष्करं च प्रयागं नैमिषं गया । शालग्राममहाक्षेत्रमर्बुदारण्यमेव च
पौष्करं मथुरा तत्र सर्वतीर्थानि चैव हि । यज्ञा वेदाश्च चत्वारो व्रजंति हरिजागरम्
गंगा सरस्वती तापी यमुना च शतद्रुका । चंद्रभागा वितस्ता च नद्यः सर्वास्तु तत्र वै
सरांसि च ह्रदाः सर्वे समुद्राः सर्व एव हि । एकादश्यां द्विजश्रेष्ठ गच्छंति कृष्णजागरम्
स्पृहणीया हि देवानां ये नराः कृष्णजागरे । नृत्यंति गीतं कुर्वंति वीणावाद्यप्रहर्षिताः
एवं जागरणं कृत्वा संपूज्य च महाहरिम् । द्वादश्यां पारणं कृत्वा स्वशक्त्या वैष्णवैः सह
महादेव उवाच- शृणु ब्रह्मन्प्रवक्ष्यामि द्वादशीमाहात्म्यमुत्तमम् । द्वादशी तु सदा ज्ञेया पुत्रदा मोक्षदायिनी
प्रातः स्नात्वा हरिं पूज्य उपवासं समर्पयेत् । अज्ञानतिमिरांधस्य व्रतेनानेन केशव
प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव । पारणं च ततः कुर्याद्यथासंभवमग्रतः
अत ऊर्ध्वं यथेष्टं तु कारयेच्च यथाविधि । यदा तु द्वादशी स्वल्पा पारणेन भवेद्दिवज
तदा रात्रौ तु कर्त्तव्यं पारणं मुक्तिमिच्छता । तदा न रात्रिदोषः स्यान्निषिद्धं न भवेत्क्वचित्
यदुक्तं निशि न स्नायान्महानिशि न भोजयेत् । तत्पूर्वपरयामाभ्यां दिनवत्कर्म कारयेत्
यदा भवति स्वल्पा तु द्वादशी पारणे दिने । उषःकाले द्वयं कुर्यात्प्रातर्मध्याह्निकं तथा
द्वादशी साधिता येन नरेण भुवि सर्वदा । तस्य पुण्यमहं वक्तुं न समर्थो विशेषतः
साधयित्वाखिलान्कामान्प्राप्नुयुश्च महाजनाः । अंबरीषादयः सर्वे ये भक्ता भुवि विश्रुताः
द्वादशीं साधयित्वा तु ते गता विष्णुसद्मनि । सत्यं सत्यं पुनः सत्यं यदुक्तं तु मया तव
नास्ति विष्णुसमो देवो न तिथिर्द्वादशीसमा । अत्र दत्तं च भुक्तं च तथा पूजादिकं च यत्
तत्सर्वं पूर्णतां याति पूजिते माधवे सति । किं पुनर्बहुनोक्तेन भक्तानां वल्लभो हरिः
प्रददात्यखिलान्कामान्यावदाभूतसंप्लवम् । द्वादश्यां चैव यद्दत्तं तत्सर्वं सफलं भवेत्
कुरुक्षेत्रेषु यद्दत्तं निष्फलं नैव जायते । तद्वच्च द्वादशीदत्तं भवेद्देवर्षिसत्तम
महादेव उवाच- एकस्मिन्समये पुत्र गतोऽहं विष्णुसन्निधौ । तत्र पृष्टं मया पूर्वं माहात्म्यं द्वादशीभवम्
नारद उवाच कीदृशी स्यान्महादेव महाद्वादशिका परा । तस्या व्रते फलं कीदृग्वद सर्वेश्वर प्रभो
शिव उवाच- इयमेकादशी ब्रह्मन्महापुण्यफलप्रदा । ऋक्षयोगैश्च संयुक्ता कर्त्तव्या मुनिसत्तमैः
जया च विजया चैव जयंती पापनाशिनी । सर्वपापहराश्चैताः कर्त्तव्याः फलकांक्षिभिः
एकादश्यां यदा ऋक्षं शुक्लपक्षे पुनर्वसुः । नाम्ना सा च जया ख्याता तिथीनामुत्तमा तिथिः
तामुपोष्य नरः पापान्मुच्यते नात्र संशयः । यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत्
विजया सा समाख्याता तिथीनामुत्तमा तिथिः । सहस्रगुणितं दानं यस्यां वै विप्र भोजनम्
होमस्तथोपवासश्च सहस्राधिफलप्रदः । यदा च शुक्लद्वादश्यां प्राजापत्यं हि जायते
जयंती नाम सा प्रोक्ता सर्वपापहरा तिथिः । सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु