यः प्रबोधयते लोकान्विष्णोर्जागरणे रतः । वसेच्चिरं तु वैकुंठे पितृभिः सह वैष्णवः
मतिं प्रयच्छते यस्तु हरेर्जागरणं प्रति । षष्टिवर्षसहस्राणि श्वेतद्वीपे वसेन्नरः
यत्किंचित्क्रियते पापं कोटिजन्मनि मानवैः । श्रीकृष्णजागरे सर्वं रात्रौ नश्यति वाडव
शालग्रामशिलाग्रे ये कुर्वंति प्रतिजागरम् । यामेयामे फलं प्रोक्तं कोट्यैंदवसमुद्भवम्
संप्राप्ते वासरे विष्णोर्ये न कुर्वंति जागरम् । वृथा स्यात्तत्कृतं तेषां वैष्णवानां च निंदया
कामार्थौ संपदः पुत्राः कीर्तिर्लोकाश्च शाश्वताः । यज्ञायुतैर्न लभ्यंते द्वादशीजागरं विना
मतिर्न जायते यस्य द्वादश्यां जागरं प्रति । न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि
यावत्पदानि चलति केशवायतनं प्रति । अश्वमेधसमानि स्युः जागरार्थं प्रगच्छतः
पादयोः पतितं यावद्धरण्यां पांशु गच्छताम् । तावद्वर्षसहस्राणि जागरो वसते दिवि 6.37.
तस्माद्गृहात्प्रगंतव्यं जागरे केशवालये । कलौ मलविनाशाय द्वादशीद्वादशीषु च
परापवादसंयुक्तं मनः प्रासाद वर्जितम् । शास्त्रहीनमगांधर्वं तथा दीपविवर्जितम्
शक्त्योपचाररहितमुदासीनं सनिंदनम् । कलियुक्तं विशेषेण जागरं नवधा मतम्
सशास्त्रं जागरं यच्च नृत्यगांधर्वसंयुतम् । सवाद्यं तालासंयुक्तं सदीपं मधुभिर्युतम्
उच्चारैस्तु समायुक्तं यथोक्तैर्भक्तिभावितैः । प्रसन्नं तुष्टिजननं संमूढं लोकरंजनम्
गुणैर्द्वादशभिर्युक्तं जागरं माधवप्रियम् । कर्त्तव्यं तत्प्रयत्नेन पक्षयोः शुक्लकृष्णयोः
किं व्रतैर्बहुभिश्चीर्णैस्तीर्थवासेन तस्य किम् । द्वादशीवासरे प्राप्ते न कुर्याज्जागरं हरेः
प्रवासेन त्यजेद्यस्तु पथिस्विन्नोऽपि वाडव । जागरं वासुदेवस्य द्वादश्यां तु समे प्रियः
मद्भक्तो न हरेः कुर्याज्जागरं पापमोहितः । व्यर्थं मत्पूजनं तस्य मत्पूज्यं यो न पूजयेत्
न शैवो न च सौरोऽसौ न शाक्तो गणसेवकः । यो भुंक्ते वासरे विष्णोर्ज्ञेयः पश्वधिको हि सः
विप्रियं च कृतं तेन दुष्टेनैव च पापिना । मद्भक्तिबलमाश्रित्य यो भुंक्ते वै हरेर्दिने
सबाह्याभ्यंतरं देहं वेष्टितं पापकोटिभिः । मुच्यंते वासरे विष्णोर्ये कुर्वंति प्रजागरम्
कूर्परं यमदूतानां दत्तं तेन यमस्य च । कृत्वा जागरणं विष्णोरविद्धं द्वादशीव्रतम्
स्वर्गापेक्षा मुनिश्रेष्ठ मुक्ता ते नैव संशयः । वांछितं नारकं सौख्यं विद्धं कृत्वा हरेर्दिनम्
निहताः पितरस्तेन देवानां वै वधः कृतः । दत्तं राज्यं तु दैत्यानां कृत्वा विद्धं हरेर्दिनम्
यो नृत्यति प्रहृष्टात्मा कृत्वा वै करताडनम् । गीतं कुर्वन्मुखेनापि दर्शयन्कौतुकान्बहून्
पुरतो वासुदेवस्य रात्रौ जागरणे स्थितः । पठन्कृष्णचरित्राणि रंजयन्वैष्णवान्गणान्
मुखेन कुरुते वाद्यं संप्रहृष्टतनूरुहः । दर्शयन्विविधान्भृत्यान्स्वेच्छालापान्प्रकारयन्
भावैरेतैर्नरो यस्तु कुरुते जागरे हरेः । निमिषेनिमिषे पुण्यं तीर्थकोटिफलं स्मृतम्
अनुद्विग्नमना यस्तु धूपनीराजनं हरेः । कुरुते जागरे रात्रौ सप्तद्वीपाधिपो भवेत्
यानि कानि च पापानि ब्रह्महत्यासमानि च । कृष्णा ह जागरात्तानि विलयं यांति खंडशः