विष्णुजागरणे प्राप्ते उपहासं करोति यः । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः
वेदविद्ब्राह्मणो यस्तु नर्त्तनेन विशेषतः । उपहासपरः प्राप्तः स वै चांडाल उच्यते
निमिषं निमिषार्द्धं वा यः करोति प्रजागरम् । धर्मार्थकाममोक्षाणां प्राप्नोति पदमव्ययम्
वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकः । रात्रौ जागरणे प्राप्ते निंदां कुर्वन्व्रजत्यधः
मम पूजां प्रकुर्वाणो विष्णुनिंदासु तत्परः । एकविंशत्कुलेनैव नरकं प्रतिपद्यते
विष्णुः शिवः शिवो विष्णुरेकमूर्तिर्द्विधा स्थिताः । तस्मात्सर्वप्रकारेण नैव निंदां प्रकारयेत् । दष्टाः कलिभुजंगेन स्वपंति मधुहाहनि
कुर्वंति जागरं नैव मायया ते च मोहिताः । प्राप्ता एकादशी येषां कलौ जागरणं विना
ते विनष्टा न संदेहो यस्माज्जीवितमध्रुवम् । उद्धृतं नेत्रयुग्मं तु दत्त्वा वै वैष्णवं पदम्
कृतं ये नैव पश्यंति पापिनो हरिजागरम् । अभावे वाचकस्याथ गीतं नृत्यं तु कारयेत्
वाचके सति देवर्षे पुराणं प्रथमं पठेत् । अश्वमेधसहस्रस्य वाजपेयायुतस्य च
पुण्यं कोटिगुणं वत्स विष्णोर्जागरणे कृते । पितृपक्षे मातृपक्षे भार्यापक्षे तु वाडव
कुलानुद्धरते चैतान्कृत्वा जागरणं हरेः । उपोषणदिने विद्धे जागरं पूजनं हरेः
वृथादानादिकं सर्वं कृतघ्नेषु कृतं यथा । उपोषणदिने विद्धे प्रारब्धे जागरे स्थितिम्
विहाय स्थानं तद्विष्णुः शापं दत्वा प्रगच्छति । अविद्धे वासरे विष्णोर्ये कुर्वंति प्रजागरम्
तेषां मध्ये तु तुष्टः सन्नृत्यं तु कुरुते हरिः । यावद्दिनानि कुरुते जागरं केशवाग्रतः
युगानि तानि तावंति विष्णुलोके महीयते । यावद्दिनानि वसते विना जागरणं हरेः
तावद्वर्षसहस्राणि रौरवान्न निवर्तते । एकदश्यां शयानस्तु विना जागरणं हरेः
मूकवत्तिष्ठते यो वै गानं पाठं न वाचरेत् । सप्तजन्मानि मूकत्वं जायतेऽजागरे हरेः
यो न नृत्यति मूढात्मा पुरतो जागरे हरेः । पंगुत्वं तस्य जानीयात्सप्तजन्मानि वाडव
यः पुनः कुरुते गीतं नृत्यं जागरणं हरेः । ब्राह्मं पदं मदीयं च सत्यं वै तस्य वैष्णवम्
यः प्रबोधयते लोकान्विष्णोर्जागरणे रतः । वसेच्चिरं तु वैकुंठे पितृभिः सह वैष्णवः
मतिं प्रयच्छते यस्तु हरेर्जागरणं प्रति । षष्टिवर्षसहस्राणि श्वेतद्वीपे वसेन्नरः
यत्किंचित्क्रियते पापं कोटिजन्मनि मानवैः । श्रीकृष्णजागरे सर्वं रात्रौ नश्यति वाडव
शालग्रामशिलाग्रे ये कुर्वंति प्रतिजागरम् । यामेयामे फलं प्रोक्तं कोट्यैंदवसमुद्भवम्
संप्राप्ते वासरे विष्णोर्ये न कुर्वंति जागरम् । वृथा स्यात्तत्कृतं तेषां वैष्णवानां च निंदया
कामार्थौ संपदः पुत्राः कीर्तिर्लोकाश्च शाश्वताः । यज्ञायुतैर्न लभ्यंते द्वादशीजागरं विना
मतिर्न जायते यस्य द्वादश्यां जागरं प्रति । न हि तस्याधिकारोऽस्ति पूजने केशवस्य हि
यावत्पदानि चलति केशवायतनं प्रति । अश्वमेधसमानि स्युः जागरार्थं प्रगच्छतः
पादयोः पतितं यावद्धरण्यां पांशु गच्छताम् । तावद्वर्षसहस्राणि जागरो वसते दिवि 6.37.
तस्माद्गृहात्प्रगंतव्यं जागरे केशवालये । कलौ मलविनाशाय द्वादशीद्वादशीषु च