पंचाग्निसाधने पुण्यं यच्च स्यात्तीर्थसाधने । तत्पुण्यं समवाप्नोति विष्णोर्जागरकारणात्
पक्षवर्द्धनिका पुण्या पवित्रा पापनाशिनी । उपवासकृता विप्र हत्याकोटिविनाशिनी
वसिष्ठेन कृता पूर्वं भारद्वाजेन वै मुने । ध्रुवेण चांबरीषेण कृतेयं विष्णुवल्लभा
इयं काशीसमा पुण्या इयं वै द्वारका समा । उपोषिता च भक्तेन वांछितं च ददात्यसौ
इयं धन्या धन्यतमा हत्यायुतविनाशिनी । कर्त्तव्या तु विशेषेण वैष्णवैर्ज्ञानतत्परैः
अहो सर्वेश्वरो देवः संसेव्यो व्रततत्परैः । किमन्यद्बहुनोक्तेन कर्तव्यं व्रतमुत्तमम्
यथा च वर्द्धते चंद्रः सिते पक्षे विशेषतः । तथा वै वर्द्धते भक्त कारणात्पक्षवर्द्धिनी
सूर्योदये यथा ध्वांतं नश्यते तत्क्षणादपि । तथाघं नाशमाप्नोति करणात्पक्षवर्द्धिनी
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे उमापतिनारदसंवादे पक्षवर्द्धनी एकादशीमाहात्म्यंनाम षट्त्रिंशोऽध्यायः
महादेव उवाच- शृणु नारद वक्ष्यामि माहात्म्यं जागरस्य च । यच्छ्रुत्वा मुक्तिमाप्नोति महापापी न संशयः
नारद उवाच- अहो विश्वेश्वरो विष्णुः पवित्रीकरणः सदा । तस्योपवासमाहात्म्यं श्रुतं हि त्वन्मुखाच्छिव
तथापि श्रोतुमिच्छामि माहात्म्यं जागरस्य तु । कीदृक्जागरमाहात्म्यं रात्रो भक्तिस्तु कीदृशी
प्रहरेषु च या पूजा वद विश्वेश्वर प्रभो । त्वं लोकेषु सदा पूज्यस्त्वं हि देवो जनार्दनः । त्वं हि विश्वेश्वरो देवो यतो भक्तिर्जनार्दने
सर्वेषां चैव भक्तानां त्वं च श्रेष्ठ उमापतिः । लोकेस्मिन्सर्वदा भक्त्या तवाख्या वर्त्तते सदा
अतो येन प्रकारेण लोकानां मुक्तिरेव च । विश्वेश्वर वद त्वं तु माहात्म्यं जागरस्य तु
महादेव उवाच-। एकादश्यां जनो विष्णुं रात्रौ संपूज्य भक्तितः । कुर्याज्जागरणं विष्णोः पुरतो वैष्णवैः सह
गीतं वाद्यं तथा नृत्यं पुराणपठनं तथा । धूपं दीपं च नैवेद्यं पुष्पं गंधानुलेपनम्
फलमर्घं तथा श्रद्धा दानमिंद्रियसंयमम् । सत्यान्वितं च विप्रेंद्र वचोयुक्तं क्रियान्वितम्
विनिद्रं च मुदायुक्तो यः करोति नरः सदा । सर्वपापविनिर्मुक्तो जायते विष्णुवल्लभः
रात्रौ जागरणे प्राप्ते निद्रां कुर्वंति वैष्णवाः । हारितं चोपवासं तैर्व्रतं वै विष्णुसंज्ञकम्
ये कुर्वंति नराः प्राज्ञ जागरे विष्णुसंज्ञके । जागरं कृष्णभावेन न स्वपंति कदाचन
कृष्णस्य नाम मनसा वदंति च पुनः पुनः । ते तु धन्यतमा ज्ञेया अस्यां रात्रौ विशेषतः
क्षणेक्षणे तु गोदानं घट्यां चैव चतुर्गुणम् । प्रहरे कोटिगुणितं चतुर्यामेष्वसंख्यकम्
जागरे निमिषार्द्धे तु केशवाग्रे विशेषतः । तत्फलं कोटिगुणितं तस्य संख्या न विद्यते
नर्त्तनं कुरुते यस्तु केशवाग्रे नरोत्तमः । न फलं हीयते तस्य आजन्ममरणांतिकम्
साश्चर्यं चैव सोत्साहं पापालापादिवर्जितम् । प्रदक्षिणसमायुक्तं नमस्कारपुरःसरम्
नीराजनसमायुक्तमनिर्विण्णेन चेतसा । यामेयामे महाभाग कुर्यादारार्तिकं हरेः
षड्विंशगुणसंयुक्तमेकादश्यां च जागरम् । यः करोति नरो भक्त्या न पुनर्जायते भुवि
य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः । जागरं वासरे विष्णोर्लीयते परमात्मनि
धनवान्वित्तशाठ्येन यः करोति प्रजागरम् । तेनात्माहारितो नूनं कितवेन दुरात्मना